७४ शब्दापशब्दविवेके
२३१. परीक्षोपयोगिषु लेखेषूपेक्ष्य न शक्यमस्याः पत्रिकायाः सर्वप्रियत्वं
सम्पादयितुम् ।
२३२. बर्तमानायां बहुदैवतार्चायामुपहसन्ति केचित् । अपरे नात्रोपहास्यं
किंचित्पश्यन्ति ।
२३३. सनातनधर्माणः कथं नामान्त्यजान् मन्दिरप्रवेशाय निषेधन्तु ।
२३४. तेजस्विने ब्रह्मचारिणे वरायाग्निशब्दप्रयोगो युज्यत एव ।
२३५. सर्वमहान्१ विष्णुः स्वं यशो देवर्षिणा नारदेन गापयामास ।
२३६. जयोदाहरणं२ बाह्वोर्गापयामास किन्नरान् । (रघौ० ४।७८) ।
२३७. सुहृदो भोजनाय निमन्त्रयते तदर्थं च महतः संभारान्कुरुते ।
२३८. माठरकौण्डिन्यौ भोजनमेषां ब्राह्मणानां परिवेविषाताम् ।
२३१. परीक्षोपयोगिनो लेखानिति साधु । उपेक्षतेः सकर्मकत्वात् ।
२३२. दैवतार्चामिति कर्मणि द्वितीया प्रयोज्या । हसतेः सकर्मकत्वात् ।
तथा च मेघदूते कविकुलपतेः प्रयोग:- गौरीवक्त्रभ्र कुटिरचनां
या विहस्येव फेनैः।
२३३. मन्दिरप्रवेशात् इति वारणार्थानामिति पञ्चमी युक्ता।
२३४. वरे (सविशेषणे) ऽधिकरणे सप्तम्येव युक्ता, तादर्थ्याभावा-
च्चतुर्थी तु न ।
२३५. अत्र गायतिः शब्दकर्मा न, शब्दक्रियोस्तीति देवर्षिणेति तृतीया
निर्दुष्टा ।
२३६: अत्र जयोदाहरणं जयप्रख्यापकः प्रबन्धविशेष इति गायतिः
शब्दकर्मेति गत्यादिसूत्रेणाणौ कर्तुर्णौ कर्मत्वे किन्नरानिति
द्वितीया सूपपन्ना।
२३७. भोजनेनेति हेतौ तृतीया प्रयोक्तव्या। तथा च व्यवहारः ।३
२३८. विष्लृ व्याप्ताविति धातुः परिपूर्वो भोजनायां वर्तते स्वार्थ-
पुरस्कारेण, न केवलः । भोजनेन कश्चिद्भोज्य: परिविष्यते न तु
तस्य भोजनं परिविष्यते । प्रकृते प्रयोगो धात्वर्थाज्ञानमूलकः ।
तेन ब्राह्मणान् भोजनेन परिवेविषातामिति वक्तव्यम् ।१. सर्वेभ्यो महत्तर इति सर्वमहान् । गुणात्तरेण तरलोपश्चेति समासः ।
२. जयप्रख्यापकं प्रबन्धविशेषम् । ३. विस्तरस्तु वाग्व्यवहारादर्शे द्रष्टव्यः ।
४.. अत्रार्थे शिष्टप्रयोगा वाग्ल्यवहारादर्शे द्रष्टव्याः ।