कारकाविभक्त्यधिकारः ७३
२२३. विरतिशून्यपुंसां पीतवेषान्न लाभः ।
२२४. हिन्दीति भाषा संस्कृताद् विकृतेत्यभ्युपगमः ।
२२५. सकृत्पतिता न शेकुरात्मानमवनत्या अवटाद्१ उद्धर्तुम् ।
२२६. रजकाय वस्त्राणि ददातीमानि निर्णिज्य२ रज्यन्तामिति३ ।
२२७. खण्डिकोपाध्यायः शिष्याय चपेटां ददाति पदानि मिथ्या कारय-
माणाय४ ।
२२८. पुत्त्रात्प्रमोदो जायते ।
२२९. अहिंसा परमो धर्म इति शास्त्रडिण्डिमेन वर्तमानहिन्दूनां हृद-
येभ्यो युयुत्सागुण एव विनाशितः ।
२३०. रत्यादिः स्थायिभावो विभावादिभिर्व्यक्तो दध्यादिन्यायेन रूपा-
न्तरं परिणतो रसो भवति ।
२२३. पीतवेषेरणेति तृतीया स्यात्, सिध्यतीति क्रियापदमत्र गम्यते ।
विभाषा गुणेऽस्त्रियामित्यत्र विभाषेति योगविभागाद्वा हेतौ
पञ्चमी समाधया।
२२४. संस्कृतस्येति षष्ठी साध्वी शैषिकी। संस्कृतस्य विकृतं रूपम्,
संस्कृतस्य विकार इति वा वक्तव्यम् ।
२२५. अवनत्या इति यदि षष्ठी तदा दोषः, न ह्यवटो नामावनतेर्भिन्नः
कश्चिदर्थोऽस्ति । यदि च पञ्चमी तदाऽदोषः। अवनत्यवटयोः
सामानाधिकरण्यं ह्यभीष्यते । अवनतिरूपादबटादित्यर्थः ।
२२६. रजकायेति भाष्यकारमतेन साधु । स हि भगवान्ददातिकर्मणा-
ऽभिसम्बध्यमानमात्रस्य सम्प्रदानतामिच्छति । न तु स्वस्वत्व-
निवृत्तिपूर्वकं परस्वत्वापादनमेवेह दानं विवक्षितम् इति मनुते ।
२२७. इदमनवद्यम् । उक्तो हेतुः ।
२२८. जनिकर्तुः प्रकृतिरिति सूत्रे प्रकृतिशब्देन कारणमात्रस्य ग्रहणं न
तुपादानकारणस्यैवेति न्यासकारमतम् । तन्मतेन पुत्त्रादिति
पञ्चमी साध्वी।
२२६. हृदयेष्विति सप्तम्येव साध्वी, अवधिभावानुपपत्तेः । विनाशितो
निःसारित इत्यर्थे तु यथास्थितं पञ्चम्यपि स्थाने
२३०. रूपान्तरेणेति साधु । उक्तो हेतुः । रूपान्तरं गत इति वा वक्त-
व्यम्।१. गर्तात् । २. संशोध्य । ३. वर्ण्यन्ताम् । ४. असकृद् अन्यथोच्चारयते ।