७२ पान्दापशब्दविवेके
२१४. ततः स राजा कांचिद् वृद्धां धात्रीवेषे शत्रो राजधानीं प्रजि-
धाय१ ।
२१५. इमे शिशवः सद्यो निद्रायाः प्रबुद्धाः प्रमार्जन्त्यक्षीणि ।
२१६. परार्थघटकः श्रेष्ठी दुर्गतोद्धारे बहुधनं व्ययं करोति ।
२१७. न जाने मया किं करिष्यति नृशंसो दुरात्मा ।
२१८. तदा शासिता निद्रयेवाजागः,२ भयं चोपस्थितमदर्शत् ।
२१९. बिल्हणः किल काश्मीरे प्रपलाय्य कर्णाटेषु शरणं प्रपेदे ।
२२०. राष्ट्ररक्षाप्रयुक्ता राष्ट्रिया लघुवेतन एव सेनास्वङ्ग-भावम-
भजन् ।
२२१. धिक् तं हताशं यस्मान्न पिता प्रसीदति न च गुरुः ।
२२२. क्षीरौदनं गन्धयुतं विधाय समादयत् किञ्चित् तत्तनूजम् ।
२१४. धात्रीवेषेणेति प्रकृत्यादित्वाद् इत्थम्भूतलक्षणे वा तृतीयया
भवितव्यम् ।
२१५. निद्राया इत्यत्र पञ्चमी दुरुपपादा । ल्यब्लोपे कर्मणीति चेन्न ।
अर्थासंगते: । निद्रां परित्यज्य प्रबुद्धा इति नार्थवद्वचः । निद्रा-
परित्यागस्य प्रबोधस्य चाविशेषात् । तेन निद्राणप्रबुद्धा: सुप्त-
प्रबुद्धाः शयनोत्थिता इति वा भङ्ग्यन्तरेण वक्तव्यम् ।
२१६. बहुधनस्य व्ययं करोतीति वा बहुधनं व्यययतीति वा साधु ।
व्यय वित्तसमुत्सर्गे इति चुरादिषु पठ्यते ।
२१७. मयेत्यस्थाने । करणतृतीयाविवक्षाविरोधात् । कि मां करिष्य-
तीत्येव शिष्टैरादृत: प्रकारः । तथा च भारते प्रयोगः--क्रुद्धः किं
मां करिष्यति (वन० २०६।२४)। क्वचित्षष्ठ्यपि। तेन किं
ममेत्याद्यप्यदुष्टम् ।
२१८. निद्रयेति तृतीया दुर्लभा । उन्निद्र (विनिद्रत) इवाभूत्, अजागरी-
दिवेति वक्तव्यम् ।
२१९. कर्णाटानित्येव साधु । यस्मात्कर्णटास्तस्य शरणम् ।
२२०. लघुवेतनेनैवेति वक्तव्यम् ।
२२१. यस्मिन्निति वैषयिकी सप्तमी युज्यते ।
२२२. प्रादिखाद्योर्नेति निषेधात्तनूजेनेति वक्तव्यम् ।१. प्रहितवान् ।
२. जागृ निद्राक्षये इत्यस्माल्लङ ।