कारकविभक्त्याधिकारः ७१
२०६. प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्व-
स्याश्चूडामणिमरीचिभिः (कुमारे ६।८१) ।।
२०७. मुनित्रयं नमस्कृत्य गुरून् ध्यात्वाथ भक्तितः । शब्दापशब्दयोरेष
विवेकः प्रवितन्यते ।।
२०८. न पठेद्यावनीं भाषां प्राणै: कण्ठगतैरपि ।
२०९. धन्यास्ते ये मनसा वाचा कर्मणा च हिंसावृत्तेर्विवर्जिताः ।
२१०. मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति ।
२११. सर्वैः पापैः प्रमुच्यते।
२१२. पुरा प्रजाः प्रजेशानन्वरज्यन्१ विरलमेव च तानद्रुहन् ।
२१३. इतः कान्यकुब्जो नाम विशालो जनपदः, यत्राङ्गपालो नामावनि-
पतिरीष्टे स्म ।
२०६. शितिकण्ठायेत्यत्र क्रियाग्रहणामपि कर्तत्यमिति चतुर्थी सूपपन्ना ।
क्रियार्थोपपदस्येति वा चतुर्थी समर्थनीया । अर्थस्तु हृदयंगमो न
भवति ।
२०७. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति कारकविभक्तिर्द्विती-
येति मुनित्रयमिति साधु ।
२०८. इत्थम्भूतलक्षणे तृतीयेति प्राणैरित्यादि साधु । प्राणः कण्ठगतै-
रुपणक्षित इत्यर्थः।
२०९. हिंसावृत्त्येति तृतीयैवानुक्ते कर्तरि साध्वी । त्यक्ता हीना इत्यर्थः।।
२१०. मुच्यत इति कर्म कर्तरि लट् । मुक्तो भवतीत्यर्थः । अवधिभा-
काङ्क्षायां सर्वपापेभ्य इति पञ्चमी।
२११. मुच्यत इति शुद्धे कर्म णि लटि रूपम् । तेन पापैरित्यतानुक्ते
कर्तरि तृतीया साधुः ।
२१२. अनोर्लक्षणेत्थम्भूतेति (१।४।९०) सूत्रेण कम प्रवचनीयत्वे तद्योगे
प्रजेशानिति साधु । तेभ्योऽद्रुहन्निति च वक्तव्यम् ।
२१३. यमीष्टे यस्य वेति वक्तव्यम् ! ईशेः सकर्मकत्वात् । पक्षेऽधीगर्थ-
दयेशां कर्मणीति शेषत्वविवक्षायां षष्ठी।१. कुषिरञ्जोः प्राचां श्यन्यरस्मैपदं चेति कर्मकर्तरि परस्मैपदम् ।