७० शब्दापशब्दविवेके
१९७. एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।
१९८. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् (कु०)।
१९९. धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह चायमिमं दीघ
मन्ये धातुर्विभाषितः ( पा० ३।१।२७ सूत्र श्लोकवार्तिकम्) ।।
२००. पक्वौदनो भुज्यते ।
२०१. वक्ष्यति कर्मणि द्वितीया (काशिकायां वृत्तौ)।
२०२. एतद् देशजा दासवदनुकुर्वन्त्याङ्गलानाम् ।
२०३. वदन्त्यपर्णामिति तां पुराविदः (कुमारे ५।२८) ।
२०४. रावणस्येह रोक्ष्यन्ति१ कपयो भीमविक्रमाः (भट्टौ ८।१२०) ।
२०५. अपि सिञ्चे: कृशानौ त्वं दर्पं मय्यपि योऽभिकः (भट्टौ ८।९२ ।
१९७. विद्यादित्यस्य कर्मत्वे त्वङितमिति साधु स्यात् । भवतीत्यध्याहा-
र्यम्, प्रातमिति प्रथमया विपरिणमनीयम् इति वा ।
१९८. असाम्प्रतमिति निपातेनाभिहितत्वाद् विषवृक्षे कर्मणि कर्म-
विभक्तिर्न ।
१९९. मन्य इत्यस्य धातुर्विभाषित इति वाक्यार्थः कर्म । न तु धातुः ।
द्वितीया च ङ्याप्प्रातिपदिकाद्विधीयते इति तदप्राप्ति: स्फुटा।
२००. भुज्यते इति प्रधानक्रिययोक्तत्वाद् ओदने द्वितीया न ।
२०१. कर्मणि द्वितीयेति सूत्रम् । तस्येदमनुकरणं वृत्तौ। अनुकार्यानु-
करणयोरभेदविवक्षायामर्थवत्त्वाभावात्प्रातिपदिकत्वासत्त्वाद्
द्वितीयाशब्दादनुक्ते कर्मणि द्वितीया न ।
२०२. कर्मणः शेषत्वविवक्षायां षष्ठी स्थाने ।
२०३. पुराविद इत्यस्मादनन्तरमितिशब्दो द्रष्टव्य इति दुर्घटवृत्तिः ।
२०४. रावणं रोक्ष्यन्तीति वाच्यम् । भीमविक्रमाः कपयो रुजः कर्तार
इति भाववचनत्वाभावाद्रावणस्येत्यत्र षष्ठी दुर्लभा ।
२०५. अनुकाभिकाभीकः कमितेति (५।२।७४) कर्तरि कन्प्रत्ययान्ता
निपात्यन्ते । कना तद्धितेन कर्मणोऽनुक्तत्वात्तत्र द्वितीयैव
साध्वी। तथा च पदमञ्जरीकार उदाहरति-अनुको भार्याम् ।
अभिको दासीमिति ।१. रुजो भङ्गे इत्यस्माल्लुटि ।