पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणाधिकारः १०३


९. अज्ञातकुलशीले न सहसा विश्वसेत् । १०. कामो मे धर्ममातिष्ठेयमधर्मं च घृणीयाम्१ । ११. यथा शास्त्रमादिशति तथैव तं भगवन्तमुपासेयुर्लोकाः । १२. ये सततं शास्त्राण्यभ्यसन्ति स्वाध्यायं२ चाधीयते ते कृतिनः । १३. उदीयन्तेऽस्य पुण्यानि । यस्माद् यदयं प्रारभते तदेवास्य फलति । १४. उदयति दिशि यस्यां भानुमान् सैव पूर्वा (उदयनाचार्यः) । १५. यो हि स्वयं सूत्रं कृन्तति वयति च स वर्धते पूयते च । १६. प्रतिरुद्धा प्राप: पूयन्ते । १७. न चापररात्रमधीत्य पुनः स्वपेत् । ९. श्वस प्राणने इत्यदादिः । तेन शपो लुकि विश्वस्यादिति सार्व- धातुके लिङि रूपम्। १०. घृणीयामिति स्पष्टं प्रमादः । अधर्मे घृणां कुर्यामित्येव वक्त- व्यम् । गृ घृ सेचने इति भ्वादिषु। घृणु दीप्ताविति तनादिषु पठितम् । घृणीयामिति रूपं तु नैकतरेणापि सुसाधम् । न चेष्टा- र्थलाभः । ११. पास उपवेशने इत्यदादिरात्मनेपदी। तेन शपि लुकि उपासीर- न्निति साधु । १२. अभ्यस्यन्तीति तु युक्तम् । युक्तत्वे हेतुरुक्तः । १३. उदीयन्त इत्यत्र ईङ् गतौ इति दिवादिधातुर्न त्विण् गताव- दादिः । तेन न कश्चिद्दोषः । १४. इट किट कटी गतौ इति भ्वादिषु पठ्यते । तत्र कटीतीकारे इ ई इति च प्रश्लिष्यन्ति केचित् । तेन उदयतीति तिपि शपि साधु । १५. कृती वेष्टने इति रुधादिः प्रयोक्तव्यो न तु कृती छेदने तुदादिः । तथा च दाशयतीषु प्रयोगः-पुमाँ एनं तनुत उत्कृणत्ति (१०। १३०।२) । तेन कृणत्तीत्येव साधु । १६. पूयी विशरणे इति दिवादिष्वात्मनेपदी पठितः । तेन नात्र कश्चि- दोषः । १७. ञिष्वप् शय इति धातुरादादिकः । तेन शब्लुकि यासुटि च स्वप्या- दिति साधु ।१. निन्देयम् । २. वेदम् ।