८ शब्दापशब्दविवेके
३८. ते नाम श्रेयान्सो ये स्वार्थाविरोधेन परहितं राध्नुवन्ति ।
३९. विरला एव पुमान्सः स्वार्थमतिहाय परार्थैकसाधनपरा भवन्ति ।
४०. प्राणवायु पूर्वमन्त आददीत ततो बहिर्गमयेत् । एवं त्रिः प्राणाना-
यच्छेत् ।
४१. तेजस्कामो ब्रह्मचर्यं परिसेवेत । ब्रह्मचर्येण देवा मृत्युमपाघ्नते-
त्याथर्वणिकाः ।
४२. यो जायते स अवश्यं म्रियते इत्युत्सर्गः क्वापि नापोद्यते ।
४३. परः कोट्यः प्रजा नवोदितं शशिनमिवाभिनन्दन्ति स्य श्रीजवाहर-
लालं महामन्त्रिणम्।
४४. अवष्टब्धो१ वृषलः शीतेन ।
४५. तस्य स्वसा विचिकया मृतेति निशम्य स चिरमशोचीत् ।
४६. प्रातस्कल्पा२ शर्वरीति प्रस्थेयं नः । कालसङ्गः परिहार्यः ।
३८. नश्चापदान्तस्य झलीत्यनुस्वारे श्रेयांस इति स्यात् ।
३९. पुमांस इत्येव साधु । पूर्ववच्छास्त्रकार्यम् ।
४०. अन्तराददीतेति वक्तव्यम् । अन्तर् इति रकारान्तमव्ययम् ।
रोरेव यादेशो विहितो न तु रेफस्य ! असति यादेशे शाकल्य-
प्राप्तिरेव न ।
४१. परिनिविभ्यः सेवसितसयेत्यादिना मूर्धन्यादेशे परिषेवेतेत्येव
साधु।
४२. सस्य रुत्वे अतो रोरप्लुतादित्युत्वे आद् गुणे एङः पदान्तात् इति
पूर्वरूपे सोऽवश्यमिति साधु ।
४३. पारस्करादित्वात्सुडागमः । सुटकात्पूर्व इति परस्यादिर्भवति
टित्वान्न त पूर्वस्य । तेन सकारस्य पदान्तता नास्ति । तेन पर-
स्कोटय इत्येव साधु । प्रयोगस्त दुर्लभः ।
४४. अंवस्तब्ध इत्येव साधु । मूर्धन्यादेशे निमित्ताभावात्
४५. विधूचिकेत्यत्र षत्वे शास्त्रम् मृग्यम् । सुषामादित्वं वा कल्प-
नीयम्
४६. प्रातःकल्पेत्येव साधु । सत्वविधौ अनव्ययस्येत्युक्तत्वात् । प्रातः
शब्दश्चाव्ययम् ।
१. गात्रस्तम्भं प्राप्तः ।
२. प्रभातप्राया।
३. विलम्बः ।