हल्सन्ध्यधिकारः ९
४७. द्विजः शुध्येत्पराकेन शूद्रः कृच्छ्रेण शुध्यति ।
४८. तदहोऽन्यत्र व्यापृतो भवितास्मीति न सखायं द्रष्टुं पारयिता-
स्मि ।
४९. वैडालवतिकं दाम्भिकं द्विजं वाग्मात्रेणापि नार्चयेत् ।
५०. अन्तर्यामिनो भगवतः किं नाम तिरोहितम् ?
५१. अचां हल्सु हलां चाक्षु संमिश्रः संनिवेशो दृश्यते भाषान्तरवर्ण-
मालासु।
५२. शास्त्राण्यध्यापयितुं प्रभूनां विशेषज्ञानां युज्यते भूयान् समादरः ।
५३. परोलक्षेषु मनुष्येषु कश्चिदेवात्मोपलब्धये यतते ।
५४. सापराधक्षमापनं चेह नम्रं निवेदयामि बालस्यापि मे वचः
किञ्चिदवधानमर्हति ।
५५. शुद्धसरल संस्कृतोपनिबद्धानि प्रमेयमात्रपरिचायकाणि वेदव्या-
ख्यानानि विरचनीयानि ।
५६. स्वयमनुत्तीर्णः कः परान्तारयेत् ।
४७. अटकुप्वाङ् इति णत्वे पराकेणेति भवितव्यम् ।
४८. तदहरिति तु न्याय्यम् । हेतुरधस्तादुक्तः ।
४९. वाङमात्रेणेति वाच्यम् । मात्रचि प्रत्यय भाषायां नित्यमिति
वचनान्नित्यमनुनासिकः । अवधारणवचने मात्रशब्दे च व्यव-
स्थितविभाषाविज्ञानात्सिद्धम् ।
५०. अन्तर्यामिन इत्यदुष्टम् । प्रातिपदिकान्तेति सूत्रेण णत्वविकल्प-
विधानात् ।
५१. इण्कोः, आदेशप्रत्यययोर् इति षत्वे हल्षु इत्येव साधु ।
५२. एकाजुत्तरपदे ण इति नित्ये णत्वे प्रभूणामित्येव साधु ।
५३. परस्लक्षेष्विति स्यात् । हेतुस्तु परःकोटय (४३) इत्यत्रोक्तः ।
५४. सापराधक्षमापणमित्येव संस्कारवत् । णत्वस्य निर्बाधत्वात् ।
'आपुक् त्वपाणिनीय इत्यन्यदेतत् ।
५५. परिचायकाणीत्यत्र णत्वं दुर्लभम्, चकारेण व्यवधानात् ।
५६. परांस्तारयेत् इत्येव साधु । नश्छव्यप्रशानिति हि नित्यो विधिः ।