पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ शब्दापशन्दविवेके


५८. वीतजन्मजरसः परं शुचि ब्रह्मणः पदम् (कि० ५।२२) । ५९. पदापि युवतीं भिक्षुर्न स्पृशेद् दारवीमपि (भा० पु० ११।८।१३) । ६०. सव्येष्ठाः सादिनश्चोपहितकवचकाः (मोह० २।१६) । ६१. मान्धाता नवदम्पतीरतिगति निर्माय मोसुद्यते (मोह० ४।३६) । सर्वनाम्नामधिकारो द्वितीयः । १. गृहस्यैकतमे देशे न्यासो गुप्तप्रच्छन्नस्तिष्ठतीति चिन्तां मा गा: २. एतयोरेकतरत्पुस्तकं मे देहि, निरूढकार्यस्त्वरितं प्रत्यर्पयिष्ये । ३. अमीषामन्यतमस्मै च्छात्राय पारितोषिकं दीयताम् । एतदेव पर्याप्स्यति । ५८. वीतजन्मजरस इति षष्ठ्येकवचनान्तम् । वृत्त्यनुसारिणस्तु पूर्व- विप्रतिषेधेन ङसः स्यादेशे कृते जरसादेशो न प्रवर्तत इत्याहुः । तन्मते वीतजन्मजरस इति षष्ठ्येकवचनं नोपपद्यते । अत एव ते वीतजन्मरजस इति पठनीयमित्याहुः । दीक्षितप्रभृतयस्तु षष्ठ्येक- वचने सि वैकल्पिको जरसादेशो निर्बाध इति मतमास्थिताः । ५९. पदाऽपि पद्दन्नोमास् (६।१।६३) इति पादशब्दस्य पद् इत्यादेशे तृतीयैकवचनान्तं साधु। ६०. सव्येष्ठा इति विसर्जनीयान्तं पदमवद्यम् । सारथिवचनः सव्येष्ठ- शब्द ऋकारान्तः । तेन प्रथमैकवचने सव्येष्ठा इत्याकारान्तं रूप- मिति बालस्यापि विदितम् । बहुवचने तु सव्येष्ठार इति स्यात् । ६१. नवदम्पतीरतिगतिम् इत्यत्र दम्पतीशब्दे दीर्घो नोपपद्यते । सुपो धातुप्रातिपदिकयोरिति समासे सुब्लुकि सति प्रथमयोः पूर्वसवर्ण इति प्राप्तिरेव न। तस्मान्नवदम्पतिरतिगतिम् इत्येवं वाच्य- मवाच्यतायै। इति सुप्सु नाम्नां विवेचनम् १. 'एकतमस्मिन्' इति युक्तम् । सर्वादिगणे डतरडतमौ पठ्येते । २. एकतरात्प्रतिषेध इत्यद्डादेशनिषेधे एकतरमित्येव साधु । ३. अन्यान्यतरयोरेव सर्वादिगणे पाठात्सर्वनामसंज्ञा, न त्वन्यतम- शब्दस्यापि, तेन अन्यतमायेत्येव वक्तव्यम् ।