पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वनाम्नामधिकार: २७


४. विश्वेऽस्मिन्नह्यतः परतरं पातकमस्ति यदनृतम् । ५. तपसैव सृजत्येनां विश्वसृट् सृष्टिमुत्तमाम् । ६. आर्येतराणां मिथः कलहाः किंकृता इति न न विदितं प्राकृतस्यापि । ७. आर्येतराणां वेदेऽधिकारो नाभ्यनुज्ञातः । तत्र कारणेन गुरुणा भवितव्यम् । ८. को नाम प्रजापतिरिति चेत्कस्मै देवाय हविषा विधेमेति मन्त्रवर्णे कायेति साधु स्यात् । तत्र कथं पश्यसि ? ६. न ह्यनृतादितरं महत्तरं पातकमस्ति । १०. सर्वमिदं विश्वं ब्रह्मण्यन्तर्निविष्टम् । ११. पूर्वस्यामुदेति सूर्यः पश्चिमस्यामस्तमेति च । १२. स्वकपोलकल्पिता एताः कथाः । एताः को नाम प्रतीयात्१ ? ४. विश्वशब्दः सर्ववचनः सर्वनाम । जगत्यर्थे तूपचर्यते तात्पर्यतः । तेन विश्वस्मिन्निति वक्तव्यम् । ५. अन्वादेशाभावे एनामित्यस्य स्थाने एतामिति स्यात् । ६. आर्येतराणामिति द्वन्द्वो विवक्षितः, मिथःशब्दप्रयोगात् । द्वन्द्वे च सर्वनामसंज्ञानिषेध इति नामि रूपं साधु । ७. अत्र आर्येतराणामिति पञ्चमीसमासो विवक्ष्यते। तेन सर्वनाम- संज्ञायां स्थितायाम् आर्येतरेषामिति साधु । ८. मन्त्रवर्णे किंशब्दः प्रश्नवचन इत्यव्याहता सर्वनामसंज्ञेति न कश्चिद्दोषः । ९. अड्डतरादिभ्यः पञ्चभ्यः (७।१।२५) इति स्वमोरडादेशवि- धानाद् इतरदित्येव न्याय्यम् । १०. विश्वशब्दः सर्ववचन इत्युक्तमधस्तात् । तेन सर्वशब्दः सुपरिहरः । पर्यायवचनानां युगपदप्रयोगात् । युगपत्प्रयोगे तु पर्यायाः पर्यायत्वं जह्यु:। ११. पश्चिमायामित्येव साधु । पश्चिमशब्दस्य सर्वादिगणे पाठाभा- वात् सर्वनामसंज्ञा नास्ति । १२. एताः को नामेत्यत्र एतच्छब्दोन्वादिष्टः । अन्वादेश एनादेशे सत्येना इति स्यात् । १. श्रद्दधीत । प्रतिपूर्वाद् इणो लिङि रूपम्