२८ शब्दापशब्दविवेके
१३. अद्यत्वे संस्कृताधीतिस्तु विशिष्टवर्ग एवैके दृश्यते न तु जनकाये१
निर्विशेषम् ।
१४. य इमेऽन्तरस्यां२ पुरि वसन्ति ते निष्टयाः३
१५. नायमर्थः प्रत्येकस्मै प्राणिने समं हित इति शक्यमध्यवसातुम् ।
१६. द्वये वा प्राजापत्या देवाश्चासुराश्च । द्वेधा च प्रवृत्तिर्द्वयेषाम् ।
१७. ये नामोभयाल्लोकात्परिभ्रष्टास्ते हता हताशाः ।
१८. अमुकपुत्त्रस्येदं गेहममुकेनामुकमूल्येन क्रीतमिति वितत्य पत्त्रे
न्यस्येत् ।
१९. दक्षिणस्या उत्तरां याति, उत्तरायाश्च दक्षिणां दिङ्मूढो
यात्रिकः ।
२०. नक्तं भोरुरयं त्वमेव तमिमं राधे गृहं प्रापय (अमरु०) ।
१३. एकस्मिन्नित्येव युक्तम् ।
१४. अपुरीति (१।१।३६ वा०) पर्युदासाद् अन्तरायामिति वक्तव्यम् ।
१५. प्रत्येकमिति तु युज्यते । प्रत्येकमित्यव्ययीभावो वीप्सायाम् ।
अव्ययीभावश्चाव्ययं भवतीति सुपो लुकि रूपम् । प्राणिन इत्य-
स्य स्थाने प्राणिभ्य इति पुंबहुत्वे प्रयोगो व्यवहारानुपातीति च
न तिरोहितं प्रेक्षावताम् । वीप्सा व्याप्तिः । स्वभावत एव सा
बहुविषया भवतीति युज्यते बहुवचनम् ।
१६. जसि विभाषेत्युक्तम् । अप्राप्तविभाषा चेयम् । तयपोऽयजादेशः ।
तेन षष्ठ्यां सर्वनामसंज्ञाया अभावाद् द्वयानामित्येव साधु । अत्र
विषये माघोपि बभ्राम व्यथा द्वयेषामपि मेदिनीभृताम् (शिशु०
१२।१३) इति प्रयुञ्जानः।
१७. उभयस्मादित्येव साधु । पूर्वादिषूभयशब्दो नान्तर्भवतीति पूर्वा-
दिभ्यो नवभ्यो वेति विकल्पो न ।
१८. अमुकमित्यव्युत्पन्नं प्रातिपदिकम् ।
१९. उत्तरस्या इति वक्तव्यम् । उत्तरशब्दः सर्वनाम ।
२०. अमरुशतकवचनमिदम् । भीरुत्वस्यानुवाद्यत्वेन विवक्षितत्वादिहा-
न्वादेशो नास्ति । तेनादोषः। किञ्चित्कार्यं विधातुमुपात्तस्य
कार्यान्तरं विधातुं पुनरुपादानमन्वादेश इत्युक्तत्वात् ।
१ कायशब्दः समूहवचनः । जनकाये जनतायाम् इत्यर्थः । २. बाह्यायाम् ।
३. चाण्डालाः । ४. निश्चेतुम् ।