सर्वनाम्नामधिकारः २९
२१. या ब्राह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति ।
२२. गेये केन विनीतौ वाम् ?
२३. एतयोरुभयजात्योः सम्बन्धविशेषः समस्ति ।
२४. सर्वथा स्वात्ममानो रक्षणीयः प्राणैरपि धनैरपि ।
२५. प्रभूताः स्वा१ न दीयन्ते, प्रभूताः स्वा न भुज्यन्ते (काशिका-
याम्)।
२६. नहि समेऽपि लोकाः सर्वत्र समं प्रवीणा भवन्ति ।
२७. गुरो ! यदत्र २मयकाऽजानता कृतं तन्मर्षितुमर्हसि ।
२८. सामान्यादिष्वन्यतमत्तमः ।
२९. प्राच्यादीनामन्यतमस्यां दिश्युद्वसेत् (प्राश्व० गृ० ४।१।४) ।
३०. हे देवदेव ! के वयं त्वा चेतसा समीक्षितुम् ।
२१. एनामिति न युक्तम् । अन्वादेशाभावात् । सकृदेवैतच्छब्द
उपात्तः।
२२. श्रीरामायण उत्तरकाण्डेऽयं प्रयोगः । वामित्यादेशं पाणिनीया
न सहन्ते । युवामित्येव न्याय्यम् ।
२३. उभयशब्दस्यैकत्वे बहुत्वे च प्रयोगो नियत इत्येतस्या उभयजा-
तेरिति वक्तव्यम्।
२४. स्वात्ममान इति दुष्टम्। स्वात्मनोः पर्यायत्वाच्छक्यं नामैकतरं
हातुम् । तथैव चोपन्यासः साधुर्भवति ।
२५. स्वमज्ञातीत्यादि सूत्रे अज्ञातिधनाख्यायामिति पर्युदासाद्धनेर्थे
सर्वनामसंज्ञा नेति नेह कश्चिद् दोषः ।
२६. सर्ववचनः समशब्दः सर्वनाम गणे पाठात् तेन समे इति साधु ।
२७. मयकेति साधु । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' इत्यकच् ।
२८. अन्यतमशब्दो डतमप्रत्ययान्तो न । तेन अड्डतरादिभ्यः
पञ्चभ्य इत्यनेन सोरद्डादेशो न युक्तः । अन्यतमम् इत्येव
युक्तम् ।
२९. अन्यतमशब्दस्य सर्वादिगणे पाठाभावात्सर्वनामसंज्ञा नेति अन्यत-
मायामित्येव साधु ।
३०. त्वेति न शक्यं प्रयोक्तुम् । पश्यार्थेश्चानालोचने (८।१।२५)
इति त्वादेशनिषेधात् । त्वाम् इत्येव साधु ।
१. धनानि । २. कुत्सितेन मया । सर्वनाम्नोऽकच् ।