पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० शब्दापशब्दविवेके


३१. उपहास्याः परेषां च शोच्याः स्वेषां भवन्ति च (कथा० ६२।१९२) अथ स्त्रीप्रत्ययेषु विवेच्यानि । १. गिरः क्षोभकराः श्रुत्वा चिरं दूयते मे वयस्यः । २. तावकीयं मतिर्न मामकी । मम त्वन्य एवाभिप्रायः । ३. वसुन्धरे ! त्वमसि जडाजडाश्रया । नानुपपन्नः सङ्गदोषात् तेऽविवेकः । ४. भयङ्करीयं मूतिर्दृष्टमात्रा लोमानि मे हर्षयति१ । ५. त्वं मे प्राणानामीश्वरी, त्वद्विरहितो न जीवामि । ६. इयं शूर्पनखीति रूपेण वृत्तशीलाभ्यां च विसदृश्यपि किंचित्स- दृशी शुर्पणखायाः। ३१. स्वानाम् इति तु युक्तम् । स्वमज्ञातिधनाख्यायाम् (१।१।३५) इति शास्त्रेण ज्ञात्यर्थे सर्वनामसंज्ञायाः पर्युदासात् । इति सुप्सु सर्वनाम्नां विवेचनम् १. कृञो हेतुताच्छील्यानुलोम्येषु इति ट प्रत्यये टित्वान्डीपि क्षोभ- करीरित्येव न्याय्यम्। २. केवलमामकभागधेयेत्यादिना संज्ञाछन्दसोर्डीब्विधानाद् भाषायां प्रत्ययस्थात्कात्पूर्वस्य-इत्यत्र मामकनरकयोरुपसंख्यानमिति वच- नाट्टापि इकारे च मामिकेति साधु । 'सविद्यो वा ऽप्यविद्यो वा ब्राह्मणो मामकी तनुः' इत्यत्रापि सैव संस्कारच्युतिः । ३. जडाजडाश्रय इति षष्ठीसमासे तत्पुरुषस्य परवल्लिङ्गत्वात् पुंसि प्रयोग एवोचितः । आश्रयशब्दश्च एरच् इत्यजन्तः । घाज- न्तश्चेति लिङ्गानुशासनेन पुंसि नियतः । ४. मेधर्तिभयेषु कृत्रः इति खचि प्रत्यये स्त्रियां टापि भयङ्करेति साधु । ५. स्थेशभासपिसकसो वरच् इति वरचि स्त्रियां टापि ईश्वरेति साधु । औणादिके वरटि तु यथास्थितमपि साधु । ६. शूर्पनखीति यौगिकः शब्दो न तु संज्ञा । शूर्प इव नखा यस्याः सा शूर्पनखी शूर्पनखा वा। स्वाङ्गाच्चोपसर्जनादसंयोगोपधाद् इति १. रोमाण्युद्गमयति, रोमाञ्चं करोति ।