पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१

७. पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । ८. कल्माषां१ कुथामास्तृणीहि । इयं हि साधीयोऽलङ्करिष्यत्य- गारम् । ६. एतादृशाया अवस्थायाः का प्रतिक्रियेति विभावयन्तु सुधियः । १०. गायत्रीविश्ववारेत्यादयो योषितोपि मन्त्रद्रष्टारो बभूवुरिति कस्तासामपकर्षं ब्रूयात् । ११. पत्नी नाम गृहपत्नी । एतत्तन्त्रं हि गृहतन्त्रम् । १२. असौ सुकुमारा वल्ली वातेरितनवपल्लवाङ्गुलिभिर्नस्त्वरय- तीव । १३. यथा पतिमत्यामङ्गसंस्कारः शोभते न तथा प्रमीतपतिकायाम् । १४. चतुर्हायनेयं कन्यकाऽष्टहायनीरपि कुमारीरतिशेते मेधया। वा ङीष् । शूर्पणखेति तु संज्ञा। नखमुखात्संज्ञायामिति ङीष्- निषेधः । पूर्वपदात्संज्ञायामग इति णत्वम् । ७. सहोदरीत्यत्र ङीष् दुर्लभः । न क्रोडादिबह्वच इत्यनेन प्रतिषिद्धो ङीष् नासिकोदरौष्ठेत्यादिना प्रतिप्रसूतोऽपि सहनञ्विद्यमान- पूर्वाच्चेति पुनः प्रतिषिध्यते । तेन टापि सहोदरेत्येव साधु । ८. अन्यतो ङीष् इत्यनेन ङीषि कल्माषीमिति साधु । ६. कनि प्रत्यये एतादृश्या इत्येव स्त्रियां ङीपि रूपम् । १०. ऋन्नेभ्यो ङीप् इति मन्त्रद्रष्ट्र्य इत्येव साधु । ११. विभाषा सपूर्वस्येति विकल्पेन नकारान्तादेशे ङीपि च गृहपतिः, गृहपत्नीति च रूपद्वयम् । १२. स्त्रीप्रत्ययविधौ तदन्तविधेरभ्यनुज्ञानात्कुमारशब्दवत् सुकुमार- शब्दादपि वयसि प्रथमे इति ङीप् । सुकुमारशब्दश्च प्रादि- तत्पुरुषः, तेन कुमारशब्दोऽनुपसर्जनम् । वयोवचन एव सुकुमार- शब्दः कोमलेर्थे उपचर्यत इति तत्त्वम् । १३. अन्तर्वत्पतिवतोर्नुक इति जीवपत्यां पतिवत्नीतीष्यते। जीवः पतिर्यस्या: सा जीवपतिः (जीवपत्नी वा)। १४. वयसि चतुर्हायणीत्येव साधु । हायनो वयसि स्मृत इति दामहा- यनान्ताच्चेति वयस्येव ङीप् । त्रिचतुर्ध्यां हायनस्येति णत्वमपि वयस्येव । १. चित्रां नानावर्णाम् ।