हल्सन्ध्यधिकारः ७
३०. नरवाहण इति धनदनामसु पठितम् । तत्र नरान् अनाक्रम्य न
शक्यो महान्धनराशिः सम्पादयितुमित्यार्याणामभिप्रायो भाति ।
३१. अहरहोऽधीते स्वाध्यायं प्रयतो गृहस्थः ।
३२. यदत्र मेऽभिस्यात्१ तन्मे दातुमर्हसि । न ततोधिकं मार्गामि२
३३. अन्याय्यमपरिणिष्ठितस्योपदेशस्य प्रदर्शनम् ।
३४. इदं सर्पिः, इदं च सर्पिष्टरम् । कुत इदं वेत्थ ?
३५. इदं पयः, इदं च पयःपाशम् इति वचनं नापेक्षते ।
३६. यत्परतनिकृति नार्हति तेजस्वी विषोढ सोऽस्य स्वो भावः ।
३७. आकाङ् क्षायोग्यतासत्तितात्पर्याख्याणि चत्वारि कारणानि
शाब्दबोधे।
३०. नरवाहन इत्येव समीचीनम् । नरो वाहनमस्येति विग्रहः ।
यस्मान्नरशब्दोऽनाहितवचनः तस्मात् वाहनमाहितात् इत्यस्या-
त्यन्तमप्राप्तिः । पूर्वपदात् संज्ञायामग इत्यनेनापि णत्वं नेष्यते ।
क्षुभ्नादित्वात् । एवं श्रीघन: शास्ता मुनिः, स्वर्भानुः, चित्रभानः
इत्यादिषु णत्वाभावः ।
३१. अहरहरधीते इत्येव साधु । रोऽसुपीति रेफः ।
३२. अभिरभागे इति भागेर्थे उपसर्गत्वमप्रतिषिद्धम् । तेन उपसर्ग-
प्रादुर्भ्याम् अस्तिर्यच्पर इति षत्वेऽभिष्यादित्येव साधु । अतएव
ममेति शेषे षष्ठी।
३३. अपरिनिष्ठितस्येत्येव साधु । एत्वविधायकशास्त्रस्यानुपलम्भात्।
३४. ह्रस्वात्तादौ तद्धिते इति सकारस्य मूर्धन्यादेशे सर्पिष्टरमिति
साधु।
३५. पयस्पाशमित्येव साधु । याप्ये पाशप् इति पाशप् प्रत्ययो निन्दा-
याम् । सोऽपदादौ इति विसर्जनीयस्य सकारः । स च पाशक-
कल्पकाम्येषु नियम्यते ।
३६ विसोढुमिति वक्तव्यम् । सोढ इति मूर्धन्यादेशनिषेधात् ।
३७. तात्पर्याख्यानीति साधु । मूलगतस्यासाधुत्वे पूर्वत्र (द्वाविंशे वाक्ये
हेतु रुक्तः।
१. भागः स्यात् । २. याचामि । ३. साधीयो घृतम् । ४. कुत्सितं क्षीरम् ।