सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/२१०

विकिस्रोतः तः
पौषम्.
पौषम्

धानावन्तं करम्भिणमपूपवन्तमुक्थिनं ।
इन्द्र प्रातर्जुषस्व नः ।। २१० ।। ऋ. ३.५२.१

(२१०।१) ।। पौषम्। पूषा गायत्रीन्द्रः ।।

धानावतंकरंभिणाम् ।। अपूपवन्तमूऽ१क्थीऽ३नाम्।। इन्द्राप्राऽ२३४ताः । ओऽ२३४हाइ ।। जुषोवा । स्वाऽ५नोऽ६हाह ।।

( दी० ३ । प० ६ । मा० ५)२(टु । ३५३)



[सम्पाद्यताम्]

टिप्पणी

सार्वत्रिकरूपेण कथनमस्ति यत् हरिवान् इन्द्राय धानाः सन्ति। धानाः अर्थात् आधानम्, धारणम्, समाधि, समिति, समित्। पूष्णे करम्भम्। अयं हासस्य, आह्लादस्य स्थितिः प्रतीयते। अपूपवन्तं विषये ऋग्वेदे ३.५२.७ कथनमस्ति - अपूपमद्धि सगणो मरुद्भिः। इन्द्रियस्य वीर्यस्य संज्ञा अपूपमस्ति (इन्द्रियमपूपः - ऐब्रा २.२४)। छान्दोग्योपनिषदे ३.१.१ कथनमस्ति यत् अन्तरिक्षमपूपमस्ति यस्मात् पंचसु दिक्षु साम, यजु आदीनां मधुनाडीनां आविर्भावः भवति। उक्थिनं विषये कथनमस्ति यत् यज्ञस्य अंगानि उक्थानि सन्ति, शिरः उक्थ्यः(काठकसं २७.१०)। अङ्गिरसां यज्ञः उक्थ्ययज्ञः, मन्दगतियज्ञः भवति, आदित्यानां यज्ञः अग्निष्टोमः (जैब्रा २.१२१)। पूष्णः संदर्भे इन्द्रस्य एतेषां विशेषणानां का आवश्यकता अस्ति, अन्वेषणीयः।

वास्तुशमनम् -- .....पूर्वैः प्रोष्ठपदेर्गृहेऽग्निं प्रतिष्ठाप्य धानावन्तं करम्भिणमित्येतद्गीत्वा पायसमग्नौ जुहुयात्। ..... - सामविधानब्राह्मणम् ३.३.७

अपि च, द्र. जै.ब्रा. १.२२० (अपाला)