श्री. टी-किं च--अपर इति । अपरे त्वाहारसंकोचमम्यस्यन्तः स्वयमेव
जीर्यमाणेष्विन्द्रियेषु तत्तदिन्द्रियवृत्तिलयं होमं भावयन्तीत्यर्थः । यद्वा-अपाने
जुह्वति प्राण प्राणेऽपानं तथाऽपर इत्यनेन पूरकरेचकयोरा[१]वर्तमानयोर्हसः सोऽहमित्यनुलोमतः प्रतिलोमतश्चाभिव्यज्यमानेनाजपामन्त्रेण तत्त्वंपदार्थैक्यं व्यतिहारेण भावयन्तीत्यर्थः । तदुक्तं योगशास्त्रे-
" सकारेण बहिर्याति हकारेण विशेत्पुनः[२] । |
प्राणापानगती रुद्ध्वेत्यनेन तु श्लोकेन प्राणायामयज्ञा अपरैः कथ्यन्ते । तत्रायमर्थः-
"द्वौ भागौ पूरयेदन्नस्तोयेनैकं प्रपूरयेत् । |
इत्येवमादिवचनोक्तो नियत आहारो येषां ते कुम्भकेन प्राणापानगती रुद्ध्वा प्राणा- यामपरायणाः सन्तः प्राणानिन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकी भव[३]न्तीति तत्रैव लीयमानेप्विन्द्रियेषु होमं भावयन्तीत्यर्थः । तदुकं योगशास्त्रे-
"यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् । |
तदेवमुक्तानां द्वादशानां यज्ञविदां फलमाह-सर्व इति । यज्ञान्विन्दन्ति लभन्त इति यज्ञविदो यज्ञज्ञा इति वा । यज्ञैः क्षपितं नाशितं कल्मषं यैस्ते ॥ ३० ॥
श्री० टी०-यज्ञशिष्टेति ।' यज्ञान्कृत्वाऽवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा ते सनातनं नित्यं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति । तदकरणे दोषमाह- नायं लोक इति । अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानशून्यस्य नास्ति कुतोऽन्यः परलोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः ॥ ३१ ॥
म०टी०-किं त्वया स्वोत्प्रेक्षामात्रेणैवमुच्यते नहि वेद एवात्र प्रमाणमित्याह-
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ॥ |
एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः सर्ववैदिकश्यःसाधनरूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेणैर्वैतेऽवगता इत्यर्थः । वेदवाक्यानि तु प्रत्येकं विस्तरभयान्नादायिन्ते । कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि जानीहि तान्सर्वान्य-