पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो ३०-३१]
१५३
श्रीमद्भगवद्गीता।


इति । नाभिमूलात्प्रेरितस्य वायोतिरिच्यमानस्य शिरस्यभिहननमुद्धात इत्युच्यते । सेयं कालपरीक्षा । संख्यापरीक्षा च प्रणवजपावृत्तिभेदेन वा संख्यापरीक्षा श्वासप्रवेशगणनया वा । कालसंख्ययोः कथंचिद्भेदविवक्षया पृथगुपन्यासः । यद्यपि कुम्भके देशव्याप्तिर्नावगम्यते तथाऽपि कालसंख्याव्याप्तिरवगम्यत एव । खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यसमधिगमनीयतया च सूक्ष्म इति निरूपितत्रिविधः प्राणायामः । चतुर्थं फलभूतं सूत्रयति स्म-“ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ” इति । बाह्यविषयः श्वासो रेचकः । आभ्यन्तरविषयः प्रश्वासः पूरकः । वैपरीत्यं वा । तावुभावपेक्ष्य सकृदूलवद्विधारकप्रयत्नवशाद्भवति बाह्याभ्यन्तरभेदेन द्विविधस्तृतीयः कुम्भकः । तावभावनपेक्ष्यैव केवलकुम्भकाभ्यासपाटवेनासकृत्तत्तत्प्रयत्नवशाद्भवति चतुर्थः कुम्भकः । तथा च बाह्याभ्यन्तरविषयाक्षेपीति तदनपेक्ष इत्यर्थः । अन्या व्याख्या-बाह्यो विषयो द्वादशान्तादिराभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायाम इति । तृतीयस्तु बाह्याभ्यन्तरौ विषयावपर्यालोच्यैव सहसा भवतीति विशेषः । एतादृशश्चतुर्विधः प्राणायामोऽपाने जुह्वति प्राणमित्यादिना सार्धेन श्लोकेन दर्शितः ॥ २९ ॥

 म०टी०-तदेवमुक्तानां द्वादशधा यज्ञविदां फलमाह-

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ३०॥

 यज्ञान्विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञविदो यज्ञानां ज्ञातारः कर्तारश्च । यज्ञैः पूर्वोक्तैः क्षपित नाशितं कल्मषं पापं येषां ते यज्ञक्षपितकल्मषाः । यज्ञान्कृत्वाऽवशिष्टे कालेऽन्नममृतशब्दवाच्यं भुञ्जत इति यज्ञशिष्टामृतभुजः । ते सर्वेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान्मुच्यन्त इत्यर्थः ॥३०॥

 म. टी.-एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाहार्धेन-

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥

 उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्यायमल्पसुखोऽपि मनुष्यलोको नास्ति सर्वनिन्द्यत्वात्, कुतोऽन्यो विशिष्टसाधनसाध्यः परलोको हे कुरुसत्तम ॥ ३१ ॥

 श्री०टी०-किं च-अपान इति । अपानेऽधोवृत्तौ प्राणमूर्ध्ववृत्तिं पूरकेण जुह्वति पूरककाले प्राणमपानेनैकी कुर्वन्ति । तथा कुम्भकेन प्राणापानयोरूर्ध्वाधोगती रुद्ध्वा रेचककालेऽपानं प्राणे जुह्वति। एवं पूरककुम्भकरेचकैः प्राणायामपरायणा अपर इत्यर्थः ॥ २९॥