पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[१०४ क्ष्लो०१३-३]
श्रीमद्भगवद्गीता।


ज्ञान्नाऽऽत्मनान् । निर्व्यापारो ह्यात्मा न तद्व्यापारा एते किं तु निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वा विमोक्ष्यसेऽस्मात्संसारबन्धनादिति शेषः ॥ ३२॥

 श्री० टी०-ज्ञानयज्ञं स्तोतुमुक्तान्यज्ञानुपसंहरति-एवमिति । ब्रह्मणो वेदस्य मुखे वितता वेदेन साक्षाद्विहिता इत्यर्थः । तथाऽपि तान्सर्वान्वाङ्मनःकायकर्मजनितानात्मस्वरूपसंस्पर्शरहितान्विद्धि जानीहि आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञाननिष्ठः सन्संसाराद्विमुक्तो भविष्यसि ॥ ३२ ॥

 म. टी.-सर्वेषां तुल्यवन्निर्देशात्कर्मज्ञानयोः साम्यप्राप्तावाह-

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।
सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

 श्रेयान्प्रशस्यतरः साक्षान्मोक्षफलत्वात्, द्रव्यमयात्तदुपलक्षिताज्ज्ञानशून्यात्सर्वस्मादपि यज्ञात्संसारफलाज्ज्ञानयज्ञ एक एव हे परंतप । कस्मादेवं यस्मात्सर्वं कर्मेष्टिपशुसोमचयनरूपं श्रौतमखिलं निरवशेषं स्मार्तमुपासनादिरूपं च यत्कर्म तज्ज्ञाने ब्रह्मात्मैक्यसाक्षात्कारे समाप्यते प्रतिबन्धक्षयद्वारेण पर्यवस्यति । " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति "धर्मेण पापमपनुदति" इति च श्रुतेः “ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् " इति न्यायाञ्चेत्यर्थः ॥ ३३ ॥

 श्री०टी०-कर्मयज्ञाज्ज्ञानयज्ञस्तु श्रेष्ठ इत्याह-श्रेयानिति । द्रव्यमयादनात्मव्यापारजन्यादैवादियज्ञाज्ज्ञानयज्ञः श्रेयाञ्श्रेष्ठः । यद्यपि ज्ञान[१]यज्ञस्यापि मनोव्यापाराधीनत्वमस्त्येव तथाऽप्यात्मस्वरूपस्य ज्ञानस्य मनःपरिणामऽभिव्यक्तिमात्र न तु तजन्यत्वमिति द्रव्यमयाद्विशेषः । श्रेष्ठत्वे हेतुः-सर्व कर्माखिलं फलसहितं ज्ञाने परिसमाप्यतेऽन्तर्भवतीत्यर्थः । " सर्वं तदभिप्तमेति यत्किचित्प्रजाः साधु कुर्वन्ति " इति श्रुतेः ॥ ३३ ॥

 म. टी०-एतादृशज्ञानप्राप्तौ कोऽतिप्रत्यासन्न उपाय इति उच्यते-

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया॥
उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

 तत्सर्वकर्मफलभूतं ज्ञानं विद्धि लभस्व । आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घनमस्कारस्तेन । कोऽहं कथं बद्धोऽस्मि केनोपायेन मुच्येयमित्यादि[ना] परिप्रश्नेन बहुविषयेण प्रश्नेन । सेवया सर्वभावेन तदनुकूलकारितया । एवं भक्तिश्रद्धातिशयपूर्वकेणावनतिविशेषेणाभिमुखाः सन्त उपदेश्यन्ति उपदेशेन संपादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्मविषयं साक्षान्मोक्षफलं ज्ञानिनः पदवाक्यन्याया-


  1. घ. ङ. च. ज. झ. नस्या।