महाभारतम्-04-विराटपर्व-040

विकिस्रोतः तः
← विराटपर्व-039 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-040
वेदव्यासः
विराटपर्व-041 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

उत्तरेणार्जनचोदनया शमीमारुह्य धनुरादानम् ।। 1 ।।







वैशंपायन उवाच।

4-40-1x

तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम्।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ।।

4-40-1a
4-40-1b

द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः ।
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ।।

4-40-2a
4-40-2b

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्।
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ।।

4-40-3a
4-40-3b

स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः ।
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ।।

4-40-4a
4-40-4b

रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः ।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ।।

4-40-5a
4-40-5b

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ।।

4-40-6a
4-40-6b

यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च।
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ।।

4-40-7a
4-40-7b

रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि ।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ।।

4-40-8a
4-40-8b

एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ।।

4-40-9a
4-40-9b

एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ।।

4-40-10a

नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः ।
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् ।।

4-40-11a
4-40-11b

वैशंपायन उवाच।

4-40-12x

इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते।
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् ।।

4-40-12a
4-40-12b

अतीतं चक्रमस्माकं विषयान्तरमागताः ।
अतीतः समयश्चोक्त अस्माभिर्यः सभातले।
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ।।

4-40-13a
4-40-13b
4-40-13c

देवव्रतेनैवमुक्ते वचने हितकारिणा ।
दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् ।।

4-40-14a
4-40-14b

एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ।।

4-40-15a
4-40-15b

एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः।
ये जेतारो महीपानाममुना कुरवो हताः ।।

4-40-16a
4-40-16b

यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत्।
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ।।

4-40-17a
4-40-17b

विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् ।
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ।।

4-40-18a
4-40-18b

खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् ।
परिणीता सुभद्रा च येन निर्जित्य यादवान् ।।

4-40-19a
4-40-19b

निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ।।

4-40-20a

गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि ।
निवातकवचा राजन्दानवानां त्रिकोटयः।
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ।।

4-40-21a
4-40-21b
4-40-21c

येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ।।

4-40-22a

येन गत्वोत्तरं मेरोरानिनाय महद्धनम् ।
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ।।

4-40-23a
4-40-23b

यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः ।
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् ।
एवमादिगुणोपेतः सोयं पार्थो न संशयः ।।

4-40-24a
4-40-24b
4-40-24c

नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ।।

4-40-25a

क्लेशितश्च वने शूरो वासवेन च शिक्षितः।
अमर्षवशमापन्नो योत्स्यते नात्र संशयः ।
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ।।

4-40-26a
4-40-26b
4-40-26c

महादेवोपि पार्थेन श्रूयते युद्धतोषितः ।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ।।

4-40-27a
4-40-27b

इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ।।

4-40-28a

सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ।।

4-40-29a
4-40-29b

दुर्योधन उवाच।

4-40-30x

यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ।।

4-40-30a
4-40-30b

अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् ।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ।।

4-40-31a
4-40-31b

वैशंपायन उवाच।

4-40-32x

तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ।।

4-40-32a
4-40-32b

तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत्।
सुखसंवर्धितं पित्रा समराणामकोविदम् ।।

4-40-33a
4-40-33b

एहि भूमिंजयारुह्य वैराटे महतीं शमीम्।
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ।।

4-40-34a
4-40-34b

नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् ।
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ।।

4-40-35a
4-40-35b

मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः।
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ।।

4-40-36a
4-40-36b

अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च।
आयुधानि महाबाहो तवैतानि महाबल ।।

4-40-37a
4-40-37b

तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् ।
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत ।।

4-40-38a
4-40-38b

युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च ।।

4-40-39a
4-40-39b

अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् ।
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।।

4-40-40a
4-40-40b

व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ।।

4-40-41a
4-40-41b

सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्।
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ।।

4-40-42a
4-40-42b

तादृशान्येव सर्वाणि बलवन्ति दृढानि च।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ।।

4-40-43a
4-40-43b
4-40-43c

उत्तर उवाच।

4-40-44x

शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल।
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ।।

4-40-44a
4-40-44b

न मामेवंविधं कर्म कारयस्व बृहन्नले ।
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं ।।

4-40-45a
4-40-45b

नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ।।

4-40-46a
4-40-46b

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ।।

4-40-47a
4-40-47b

वैशंपायन उवाच।

4-40-48x

तमुवाच ततः शूरः पार्थं परपुंरजयः।
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ।।

4-40-48a
4-40-48b

जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च ।
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ।।

4-40-49a
4-40-49b

व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ।।

4-40-50a
4-40-50b

दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।
कथं वा नन्दितं कर्म कारये त्वां नृपात्मज ।।

4-40-51a
4-40-51b

वैशंपायन उवाच।

4-40-52x

एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ।।

4-40-52a
4-40-52b

तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः ।
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ।।

4-40-53a
4-40-53b

सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् ।
परिवेष्टनपत्राणि विमुच्य समुपानयत् ।।

4-40-54a
4-40-54b

परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् ।
तेषां संनहनीयानि परिमुच्य परन्तपः।
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ।।

4-40-55a
4-40-55b
4-40-55c

तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ।।

4-40-56a
4-40-56b

स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् ।
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ।।

4-40-57a
4-40-57b

अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः।
तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ।। 58 ।।

4-40-58a
4-40-58b

आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः।
सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ।। 59 ।।

4-40-59a
4-40-59b

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ।। 60 ।।

4-40-60a
4-40-60b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चत्वारिंशोऽध्यायः ।। 40 ।।

[सम्पाद्यताम्]

4-40-11 नगारिसूनुः। एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा व इति झo पाठः। हे नदीज गाङ्गेय भीष्म, लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः । नगो `वृक्षस्तदाह्लयः वृक्षनामा। अर्जुन इत्यर्थः। शैलवृक्षौ नगावगावित्यमरः। नगारिरिन्द्रस्तस्य सूनुः । किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनं अव पालय ।। 11 ।। 4-40-46 आलब्धुं स्प्रष्टुम् ।। 46 ।। ।। चत्वारिंशोऽध्यायः ।।

विराटपर्व-039 पुटाग्रे अल्लिखितम्। विराटपर्व-041