महाभारतम्-04-विराटपर्व-041

विकिस्रोतः तः
← विराटपर्व-040 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-041
वेदव्यासः
विराटपर्व-042 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः ।। 1 ।।






उत्तर उवाच।

4-41-1x

सारथे किमिदं दिव्यं नागो वा यदि वा धनुः।
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ।।

4-41-1a
4-41-1b
4-41-1c

बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ।।

4-41-2a
4-41-2b

पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ।।

4-41-3a
4-41-3b

नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम्।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ।।

4-41-4a
4-41-4b

तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ।।

4-41-5a
4-41-5b

दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ।।

4-41-6a
4-41-6b

चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः ।
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ।।

4-41-7a
4-41-7b
4-41-7c

चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम्।
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ।।

4-41-8a
4-41-8b
4-41-8c

शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ।।

4-41-9a
4-41-9b

सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ।।

4-41-10a
4-41-10b
4-41-10c

कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ।।

4-41-11a
4-41-11b

हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ।।

4-41-12a
4-41-12b

विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ।।

4-41-13a
4-41-13b

वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ।।

4-41-14a
4-41-14b

कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ।।

4-41-15a
4-41-15b

वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ।।

4-41-16a
4-41-16b

कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ।।

4-41-17a
4-41-17b

मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ।।

4-41-18a
4-41-18b

यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ।।

4-41-19a
4-41-19b

निहितः पार्षते कोशे तैलधौतः समाहितः।
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम्।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ।।

4-41-20a
4-41-20b
4-41-20c

निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ।।

4-41-21a
4-41-21b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः ।। 41 ।।

विराटपर्व-040 पुटाग्रे अल्लिखितम्। विराटपर्व-042