महाभारतम्-04-विराटपर्व-028

विकिस्रोतः तः
← विराटपर्व-027 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-028
वेदव्यासः
विराटपर्व-029 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पौरौर्विराटंप्रति सानुजकीचकनिधननिवेदनपूर्वकं नगराद्द्रौपदीनिष्कासनप्रार्थना ।। 1 ।।
सुदेष्णया विराटनियोगाद्द्रौपदीं प्रति स्वपुरान्निर्गमनचोदना ।। 2 ।।
तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् ।। 3 ।।

वैशंपायन उवाच।

4-28-1x

ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत।
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् ।
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ।। 1 ।।

4-28-1a
4-28-1b
4-28-1c

यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः।
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ।। 2 ।।

4-28-2a
4-28-2b

सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् ।
सर्वं संशयितं राजन्नगरं ते भविष्यति ।। 3 ।।

4-28-3a
4-28-3b

तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ।। 4 ।।

4-28-4a
4-28-4b

यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव।
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ।। 5 ।।

4-28-5a
4-28-5b

सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् ।
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्।
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ।। 6 ।।

4-28-6a
4-28-6b
4-28-6c

तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि।
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ।। 7 ।।

4-28-7a
4-28-7b

निष्कासयैनां भवनात्पुराच्चैव विशेषतः।
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ।। 8 ।।

4-28-8a
4-28-8b

वैशंपायन उवाच।

4-28-9x

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः।
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ।। 9 ।।

4-28-9a
4-28-9b

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ।। 10 ।।

4-28-10a
4-28-10b

इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम्।
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।। 11 ।।

4-28-11a
4-28-11b

सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह ।
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना ।
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ।। 12 ।।

4-28-12a
4-28-12b
4-28-12c

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ।। 13 ।।

4-28-13a
4-28-13b

वैशंपायन उवाच।

4-28-14x

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ।। 14 ।।

4-28-14a
4-28-14b

अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च।
मोक्षिता भीमसेनेन जगाम नगरं प्रति ।। 15 ।।

4-28-15a
4-28-15b

त्रासितेव मृगी बाला शार्दूलेन मनस्विनी।
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ।। 16 ।।

4-28-16a
4-28-16b

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश।
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ।। 17 ।।

4-28-17a
4-28-17b

प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः।
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ।। 18 ।।

4-28-18a
4-28-18b

तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः।
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ।। 19 ।।

4-28-19a
4-28-19b

ततो महानसद्वारे भीमसेनमवस्थितम्।
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ।। 20 ।।

4-28-20a
4-28-20b

सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत्।
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ।। 21 ।।

4-28-21a
4-28-21b

कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे।
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ।। 22 ।।

4-28-22a
4-28-22b

भीम उवाच।

4-28-23x

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः।
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ।। 23 ।।

4-28-23a
4-28-23b

ये पुरा विचरन्तीह पुरुषा वशवर्तिनः।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ।। 24 ।।

4-28-24a
4-28-24b

वैशंपायन उवाच।

4-28-25x

तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः।
ततः पाञ्चालराजस्य सुता चापि जगाम ह ।। 25 ।।

4-28-25a
4-28-25b

ततः सा नर्तनागारे धनंजयमपश्यत।
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ।। 26 ।।

4-28-26a
4-28-26b

ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः।
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ।। 27 ।।

4-28-27a
4-28-27b

कान्या ऊचुः।

4-28-28x

दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता।
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ।। 28 ।।

4-28-28a
4-28-28b

बृहन्नलोवाच।

4-28-29x

कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः।
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ।। 29 ।।

4-28-29a
4-28-29b

सैरन्ध्युवाच।

4-28-30x

बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै।
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ।। 30 ।।

4-28-30a
4-28-30b

न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते।
सुखेन वर्तसे येह न तद्दुःखमवाप्यते।
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ।। 31 ।।

4-28-31a
4-28-31b
4-28-31c

बृहन्नलोवाच।

4-28-32x

बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम्।
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ।। 32 ।।

4-28-32a
4-28-32b

त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता।
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने ।
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्। ।। 33 ।।

4-28-33a
4-28-33b
4-28-33c

न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित्।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ।। 34 ।।

4-28-34a
4-28-34b

वैशंपायन उवाच।

4-28-35x

ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्।
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ।। 35 ।।

4-28-35a
4-28-35b

तामब्रवीद्राजपत्नी विराटवचनादिदम् ।
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ।
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ।। 36 ।।

4-28-36a
4-28-36b
4-28-36c

त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि ।
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ।। 37 ।।

4-28-37a
4-28-37b

तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च।
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ।। 38 ।।

4-28-38a
4-28-38b

त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः।
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ।। 39 ।।

4-28-39a
4-28-39b

तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते।
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ।। 40 ।।

4-28-40a
4-28-40b

वैशंपायन उवाच।

4-28-41x

सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् ।
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ।। 41 ।।

4-28-41a
4-28-41b

कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः ।
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ।। 42 ।।

4-28-42a
4-28-42b

ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ।
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे।
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ।। 43 ।।

4-28-43a
4-28-43b
4-28-43c

अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय।
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ।। 44 ।।

4-28-44a
4-28-44b

वैशंपायन उवाच।

4-28-45x

तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता।
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ।। 45 ।।

4-28-45a
4-28-45b

वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता।
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ।। 46 ।।

4-28-46a
4-28-46b

इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् ।
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ।। 47 ।।

4-28-47a
4-28-47b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि अष्टाविंशोऽध्यायः ।। 28 ।।

[सम्पाद्यताम्]

4-28-1 गन्धर्वैर्निहता राजन्निति खo थo धo पाठo ।। 1 ।। 4-28-5 तथा नीतिर्विधीयतामिति धo पाठः ।। 5 ।।

विराटपर्व-027 पुटाग्रे अल्लिखितम्। विराटपर्व-029