महाभारतम्-04-विराटपर्व-026

विकिस्रोतः तः
← विराटपर्व-025 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-026
वेदव्यासः
विराटपर्व-027 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ।। 1 ।।
पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं संभाषणम् ।। 2 ।।
भीमेन नियुद्धेन कीचकमारणम् ।। 3 ।।
पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ।। 4 ।।







भीम उवाच।

4-26-1x

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ।। 1 ।।

4-26-1a
4-26-1b

नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ।। 2 ।।

4-26-2a
4-26-2b

मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ।। 3 ।।

4-26-3a
4-26-3b

वैशंपायन उवाच।

4-26-4x

एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ।। 4 ।।

4-26-4a
4-26-4b

अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ।। 5 ।।

4-26-5a
4-26-5b

स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ।। 6 ।।

4-26-6a
4-26-6b

कीचकस्तु शिरःस्नातो निशायां समलंकृतः।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ।। 7 ।।

4-26-7a
4-26-7b

तदेव नर्तनागारं पाञ्चाली यदभाषत।
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ।। 8 ।।

4-26-8a
4-26-8b

प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ।। 9 ।।

4-26-9a
4-26-9b

शयानं शयने तत्र मृत्युं मूढः परामृशत्।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ।। 10 ।।

4-26-10a
4-26-10b

एकान्ते भीममासाद्य कीचकः कालचोदितः।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ।। 11 ।।

4-26-11a
4-26-11b

प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ।। 12 ।।

4-26-12a
4-26-12b

अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ।। 13 ।।

4-26-13a
4-26-13b

अहं रूपेण संपन्नः स्नातो गुरुविभूषितः।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ।। 14 ।।

4-26-14a
4-26-14b
4-26-14c

भीम उवाच।

4-26-15x

दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि।। 15 ।।

4-26-15a

त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ।। 16 ।।

4-26-16a
4-26-16b
4-26-16c

उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ।। 17 ।।

4-26-17a
4-26-17b

स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ।। 18 ।।

4-26-18a
4-26-18b

वैशंपायन उवाच।

4-26-19x

इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ।। 19 ।।

4-26-19a
4-26-19b

अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ।। 20 ।।

4-26-20a
4-26-20b

निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ।। 21 ।।

4-26-21a
4-26-21b

ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ।। 22 ।।

4-26-22a

गृहीत्वा कीचकं भीमो विरराज महाबलः।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ।। 23 ।।

4-26-23a
4-26-23b

स केशेषु परामृष्टो बलेन बलिनां वरः।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ।। 24 ।।

4-26-24a
4-26-24b

बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ।। 25 ।।

4-26-25a
4-26-25b

कीचकानां तु मुख्यस्य नराणामुत्तमस्य च।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ।। 26 ।।

4-26-26a
4-26-26b

शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ।। 27 ।।

4-26-27a
4-26-27b

गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ।।28 ।।

4-26-28a
4-26-28b

ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ।। 29 ।।

4-26-29a
4-26-29b

पातितो भीमसेनस्तु कीचकेन बलीयसा।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ।। 30 ।।

4-26-30a
4-26-30b

स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ।। 31 ।।

4-26-31a
4-26-31b

ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ।। 32 ।।

4-26-32a
4-26-32b

तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ।। 33 ।।

4-26-33a
4-26-33b

मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ।। 34 ।।

4-26-34a
4-26-34b

तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ।। 35 ।।

4-26-35a
4-26-35b

क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ।। 36 ।।

4-26-36a
4-26-36b

गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ।। 37 ।।

4-26-37a
4-26-37b

पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ।। 38 ।।

4-26-38a
4-26-38b

मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ।। 39 ।।

4-26-39a
4-26-39b

आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ।। 40 ।।

4-26-40a
4-26-40b

स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ।। 41 ।।

4-26-41a

तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली।
कष्णायै दर्शयामास भीमसेनो महाबलः ।। 42 ।।

4-26-42a
4-26-42b

उवाच च महातेजा द्रौपदीं योषितां वराम्।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ।। 43 ।।

4-26-43a
4-26-43b
4-26-43c

प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् ।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ।। 44 ।।

4-26-44a
4-26-44b
4-26-44c

एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा।
विज्ञापनार्थमन्येषां विरराम महाहवम् ।। 45 ।।

4-26-45a
4-26-45b

तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ।। 46 ।।

4-26-46a
4-26-46b

स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम्।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ।। 47 ।।

4-26-47a
4-26-47b

ततः कृष्णा यदा मेने गतं भीमं महानसम् ।
कीचकं घातयित्वा च द्रौपदी योषितां वरा।
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ।। 48 ।।

4-26-48a
4-26-48b
4-26-48c

कीचको निहतः शेते गन्धर्वैः पतिभिर्मम।
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ।। 49 ।।

4-26-49a
4-26-49b

तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ।। 50 ।।

4-26-50a
4-26-50b

तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ।। 51 ।।

4-26-51a
4-26-51b
4-26-51c

पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ।। 52 ।।

4-26-52a

क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ।। 53 ।।

4-26-53a
4-26-53b

अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ।। 54 ।।

4-26-54a
4-26-54b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि षड्विंशोऽध्यायः ।। 26 ।।

विराटपर्व-025 पुटाग्रे अल्लिखितम्। विराटपर्व-027