ऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि, उपर्युहुयिता- नीति यावत् । अत एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् , उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकान देवरूपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षा कालीनपयोदसदृशभासो या धूलयः सेनोत्पतितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्रुः, प्रभञ्जनवेगोड्डयितानि विशदधर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ॥ २७ ॥
विध्वस्य तेन सुरसैन्यमहापताका
नीता नभःस्थलमलं नवमल्लिकाभाः ।
स्वर्गापगाजलमहौघसहस्रलीलां
व्यातेनिरे दिवि सिताम्बरकैतवेन ॥ २८ ॥
विध्वस्येति ॥ तेन प्रभञ्जनेन कर्त्राऽलं विध्वस्य भञ्जयित्वा नभःस्थलमा- काशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृश- भासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गाप- गाया जलस्य महतामोघानां पूराणां सहस्त्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्यो व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण, अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवा- पहुतिनिदर्शनालंकारयोः संसृष्टिः ॥ २८ ॥
धृतानि तेन सुरसैन्यमहागजानां
सद्यः शतानि विधुराणि दलत्कुथानि ।
पेतुः क्षितौ कुपितवासववज्रलून-
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥
धूतानीति ॥ तेन वायुना धूतानि कम्पितानि, नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि तथा । दलन्तः 'चरड् चरड्' इति
पाठा०-१ नभस्तलम्. २ दिविचरीं चिरविभ्रमेण; दिवि चराचरविभ्रमेण. ३ कुलानि. ४ गलत्कुथानि.