पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
[ सर्गः १७
कुमारसंभवे

तथा कुमारे विषये वरैः श्रेष्ठैः शस्त्रैः कृत्वा युधं युद्धम् । 'समुदायः स्त्रियः संय- त्समित्याजिसमिद्युधः' इत्यमरः । व्यर्थां फलराहित्येन निरर्थकां समर्थ्य सिद्धान्त- यित्वा, निश्चित्येति यावत् । सहेलं सानादरम् । 'अयं मायोचितो नास्ति, व्यर्थ- मेवात्र मायायुद्धम्' इत्यवहेलनासहितं यथा स्यात्तथा । वायव्यं वायुदेवताक- मस्त्रमह्नाय झटिति धनुषि न्यधत्त निदधे ॥ २५ ॥

  संधानमात्रमपि यस्य युगान्तकाल-
   भूतभ्रमं परुषभीषणघोरघोषः।
  उद्धूतधूलिपटलैः पिहिताम्बराशः
   प्रच्छन्नचण्डकिरणो व्यसरत्समीरः ॥ २६ ॥

 संधानेति ॥ यस्य वायव्यास्त्रस्य संधानमात्रमपि कोदण्डे प्रक्षेपणार्थमारो- पणमात्रमपि युगान्तकाल इव भूतानां प्राणिनां भ्रमो भ्रान्तिरोगो येन तथाभूतम् । यस्य संधानमात्रेणैव भूतानां भ्रान्तिरोग उत्पद्यते, किं पुनस्तस्य प्रक्षेपणेन वाच्यम् । तस्य प्रक्षेपणेनेति शेषः । परुषः कठोरो भीषणो भयदायी घोरो महान् । परुषेण भयदत्वं दीर्घत्वेन भयदत्वं चेत्युभयविधस्य भयदायित्वस्य विवक्षितत्वान्न पौनरुक्त्यम् । तथाविधो घोष आरत्रो यस्य । तथोद्भूतान्युपर्यु- त्पातितानि यानि धूलिपटलानि रजोमण्डलानि तैः कृत्वा पिहिता आच्छादिता अम्बरं व्योम दिशश्च येन । तथा प्रच्छन्नः पिहितश्चण्डकिरणो रविर्येन तथाभूतः । एवंभूतश्च समीरो वायुर्व्यसरत्प्रससार, प्रचचालेति यावत् ॥ २६ ॥

  कुन्दोज्ज्वलानि सकलातपवारणानि
   धूतानि तेन मरुता सुरसैनिकानाम् ।
  उड्डीयमानकलहंसकुलोपमानि
   मेघाभधूलिमलिने नभसि प्रसस्रुः ॥ २७ ॥

 कुन्दोज्ज्वलानीति ॥ कुन्दपुष्पवदुज्ज्वलानि विमलानि, श्वेतानीति फलितो-

पाठा-१ संधानमात्रसममस्य; संधानकालसममस्य. भूतभ्रमः, ३ पटली- पिहिताम्बरान्तः; पटलीपिहिताम्बराशः; पटलीपिहिताम्बराङ्गः. ४ व्यहरत् ; अप्य-

सरत, ५ वरहंस. ६ संग्रामधूलिमलिने; मेघाभ्रधूलिमिलिते.