पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[ सर्गः १७
कुमारसंभवे

स्फुटन्तः कुथाः कम्बला येषाम् । 'कुथः स्त्रीपुंसयोर्वस्त्रकम्बले पुंसि बर्हिषि' इति मेदिनी । अत एव कुपितस्य वासवस्य वज्रेण पविना लूनपक्षस्य छिन्नपत्रस्य भूधरकुलस्य पर्वतसमूहस्य तुलां साम्यं वहन्ति दधति । सुरसैन्यमहागजानां देवसैन्यबृहद्दन्तिनां शतानि शतसंख्याककुलानि क्षितौ भुवि पेतुः पतित- वन्ति ॥ २९॥

  तास्ताः खरेण मरुता रथराजयोऽपि
   दोधूयमाननिपतिष्णुतुरंगमाश्च ।
  विस्रस्तसारथिकुलप्रवराः समन्ता-
   व्ध्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ ३० ॥

 ता इति ॥ तास्ताः सुरवाहिनीनां देवसेनानां रथराजयोऽपि स्यन्दनपङ्क्तयोऽपि खरेण तीक्ष्णेन मस्ता वायुना दोधूयमानाः पुनःपुनरतिशयेन वा कम्प्यमाना अत एव निपतिष्णवः पतनशीलास्तुरंगमा अश्वा यासाम् । तथा विस्रस्ता अधःपतिताः सारथय एव कुलप्रवराः कुलश्रेष्ठाः, कुलीना इति यावत् । यासाम् । तथाभूताः सन्त्यो नभसि समन्ताव्ध्यावृत्य परिभ्रम्यावनौ पेतुः ॥ ३०॥

  हित्वायुधानि सुरसैन्यतुरंगवाहा
   वातेन तेन विधुराः सुरसैन्यमध्ये ।
  शस्त्राभिघातमनवाप्य निपेतुरु्र्व्यां
   स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ ३१ ॥

 हित्वेति ॥ तेन वातेन विधुराः पीडिताः सुरसैन्यस्य देवसैन्यस्य तुरंगवाहा अश्ववाहाः, अश्वारोहा इति यावत् । सुरसैन्यमध्य आयुधानि भल्लादीनि हित्वा परित्यज्य स्वीयेप्वात्मीयेषु वाहनवरेपु श्रेष्ठवाहनेषु पतत्सु सत्सु शस्त्राभिघातं शस्त्रप्रहारमनवाप्यापि न प्राप्याप्यु्र्व्यां भूमौ निपेतुः ॥ ३१ ॥

पाठा०-१ भ्रष्टाः. २ तुरंगमध्ये. ३ वित्रस्तसारथिवरप्रकराः; विध्वस्तसार- थिरथप्रवराः. ४ व्यावृत्तिमापुः. ५ तुरंगधारावेगेन; तुरंगवारा दैत्येन. ६ विधुतां

विधुरा रणान्ते. ७ शस्त्राभिघातमथिताः परिपेतुः. ८ वारणवरेषु.