अङ्गदमिति ॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसम्भवौ पुत्रौ । कारापथो नाम देशः । तस्येश्वरौ चक्रे ॥
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥९१ ।।
इतीति ॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥
उपेत्य मु[१]निवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ।। ९२ ॥
उपेत्येति॥अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ सम्भाषिणावावां यः पश्येत् । रहस्यभङ्गं कुर्यादित्यर्थः । तं त्यजेरिति ॥
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
आचख्यौ दिवम[२]ध्यास्व शासनात्परमेष्ठिनः॥९३॥
तथेति ॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् । परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ।
विद्वानपि तयोर्द्वास्थः समयं लक्ष्मणोऽभिनत् ।
भीतो दुर्वाससः शापाद्रामसन्दर्शनार्थिनः॥९॥
विद्वानिति ॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसन्दर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् । तयोः कालरामयोः समयं संवादमभिनद्बिभेद ॥
स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकारा[३]वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ ९५॥
स इति ॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शि[४]थिलं तस्थौ भुवि धर्मस्त्रिपादिव ।। ९६ ॥
९४-९५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते- गच्छ लक्ष्मण शीघ्रं त्वं मा भूद्धर्मविपर्ययः ।
त्यागो वापि वधो वापि साधूनामुभयं समम् ॥