पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३२३ )
पञ्चदशः सर्गः ।

  [१]रायां तस्य संरम्भं सी[२]ताप्रत्यर्पणैषिणः ।
  गुरुर्विधिबलापेक्षी शमयामास धन्विनः॥ ८५॥

 धरायामिति ॥ सीतामप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शी गुरुर्ब्रह्मा शमयामास| अवश्यम्भावी विधिरिति भावः॥

  ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
  रामः सीतागतं स्नेहं निदधे तदपत्ययोः॥८६॥

 ऋषीनिति ॥ रामो यज्ञान्ते पुरस्कृतान्पूजितानृषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ।

  यु[३]धाजितश्न सन्देशात्स देशं सिन्धुनामकम् ।
  ददौ द[४]त्तप्रभावाय भरताय भृ[५]तप्रजः॥ ८७ ॥

 युधाजित इति ॥ किञ्च । भृतप्रजः स रामो युधाजितो भरतमातुलस्य सन्देशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय । रामेणेति शेषः। भरताय ददौ॥

  भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
  आतोद्यं ग्राहयामास समत्याजयदा[६]युधम् ॥ ८८॥

 भरत इति ॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम् ॥ “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रोद्यनामकम्" इत्यमरः ॥ ग्राहयामास । आयुधं समत्याजयत्त्याजितवान् ॥ ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसन्धेयम् ॥

  स त[७]क्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः।
  अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः।। ८९ ॥

 स इति ॥ स भरतः । अभिषेकार्हौ तक्षपुष्कललौ नाम पुत्रौ तदाख्ययोः । तक्षपुष्कलाख्ययोरित्यर्थः । पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥

  अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसम्भवौ।
  शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥९॥


  1. रसायाम्
  2. सीताभ्युद्धरणैषिणः
  3. युधाजितस्य
  4. दिष्टप्रभावाय
  5. धृतमजः
  6. आयुधान्
  7. तक्षपुष्करौ.