पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३२२ )
रघुवंशे

  तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
  कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात् ॥ ७९ ॥

 तामिति ॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से, भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु । इति तां सीतामशाच्छास्ति स्म ॥

  अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
  आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ ८॥

 अथेति ॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्य सीता सत्यां सरस्वतीं वाचमुदीरयामासोच्चारयामास ॥

  वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
  तथा विश्वम्भरे देवि मामन्तर्धातुमर्हसि ॥ ८१ ॥

 वाङ्मन इति॥वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि । विश्वं बिभर्तीति विश्वम्भरा भूमिः ॥ “संज्ञायां भृत्-" इत्यादिना खच्प्रत्ययः । “ अरुर्द्विषत्-" इत्यादिना मुमागमः ॥ हे विश्वम्भरे देवि, मामन्तर्धातुं गर्भे वासयितुमर्हसि ।।

  एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवार्द्भु[१]वः ।
  शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ ८२ ॥

 एवमिति ॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ।

  तत्र नागफणोत्क्षिप्तसिंहासननिषेदु[२]षी।
  [३]मुद्ररशना साक्षात्प्रादुरासीद्वसुन्धरा ॥ ८३॥

 तत्रेति ॥ तत्र प्रभामण्डले नागफणोक्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात् । वसूनि धारयतीति वसुन्धरा भूमिः ॥ “खचि ह्रस्वः" इति ह्रस्वः ॥ प्रादुरासीत् ॥

  सा सीतामङ्कमारोप्य भ[४]र्तृप्रणिहितेक्षणाम् ।
  मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात् ॥ ८४ ॥

 सेति ॥ सा वसुन्धरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव । व्याहरन्तमनादृत्येत्यर्थः ।। “षष्ठी चानादरे" इति सप्तमी ॥ पातालमभ्यगात् ॥

१ . २ . ३ . ४ .


  1. ततः
  2. निषादिनी
  3. समुद्रवसना
  4. भर्तरि प्रहितेक्षणाम्