ता इति ॥ मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु ।। विश्वासस्य बुद्धिरूपत्वात् “णौ गमिरबोधने" इति इणो गम्यादेशो नास्ति ॥ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ॥
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः।
शिष्यैरा[१]नाययामास स्वसिद्धिं नियमैरिव ॥ ७४ ॥
इतीति ॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्ज्नानकीं शिष्यैः प्रयोज्यैः| स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव । आनाययामास ॥ .
अन्येद्युरथ काकुत्स्थः संनि[२]पात्य पुरौकसः।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ ७५॥
अन्येद्युरिति ॥ अथ काकुत्स्थो रामः । अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसन्धानाय पुरौकसः पौरान्संनिपात्य मेलयित्वा कविं वाल्मीकिमाह्वाययामासाकारयामास ॥
स्वरेति ॥ अथ । स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः । तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव । पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥
काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ ७७ ॥
काषायेति ॥ कषायेण रक्तं काषायम् ॥ "तेन रक्तं रागात्" इत्यण् ॥ तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता॥
जनास्तदालोकपथात्पतिसंहृतचक्षुषः ।
तस्थुस्तेऽ[६]वाङ्मुखाः सर्वे फलिता इव शालयः ॥ ७॥
जना इति ॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात्प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताःशालय इव । अवाङ्मुखा अवनतमुखास्तस्थुः॥
४१