उभयोरिति।लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥
गेये को नु विनेता वां कस्य चेयं कृ[१]तिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥
गेय इति ॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः । नुशब्दः प्रश्ने ॥“नु पृच्छायां वितर्के च" इत्यमरः ॥ इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कविं चेत्यर्थः ॥ “गेये केन विनीतौ वाम्" इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः-केन पुंसा वा युवां गेये गीतविषये विनीतौ शिक्षितौ ॥ कर्मणि निष्ठाप्रत्ययः॥
अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
उ[२]रीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७॥
अथेति ॥ अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् । देहमात्मन उरीकृत्य । आत्मानं स्थापयित्वेत्यर्थः । राज्यमस्मै प्राचेतसाय न्यवेदयत्समर्पितवान्|
स इति ॥ करुणा प्रयोजनमस्य कारुणिको दयालुः ॥ " प्रयोजनम्” इति ठञ् ॥" स्याद्दयालुः कारुणिकः” इत्यमरः ॥स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥
तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥७२ ॥
तातेति ॥ हे तात । ते स्नुषा सीता नोऽस्माकमक्ष्णोः समीपं समक्षम् ॥ "अव्ययीभावे शरत्प्रभृतिभ्यः" इति समासान्तष्टच् ॥ जातवेदसि वह्नौ शुद्धा । नास्माकमविश्वास इत्यर्थः । किन्तु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुर्न विशश्वसुः॥
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥७३॥
७१-७२ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
तदाकर्ण्य वचस्तस्य रामो राजीवलोचनः ।
सह हर्षविषादाभ्यं युक्तस्तं प्रोक्तवान्मुनिम् ।।