तस्मिन्निति ॥ चतुर्थो भागश्चतुर्भागः ॥ सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् ॥ आत्मचतुर्भागे तस्मिंल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः । भुवि त्रिपाद्धर्म इव । शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः॥ त्रेतायां धर्मस्त्रिपादित्याहुः । पादश्चतुर्थांशः । अङ्घ्रिश्च ध्वन्यते ॥ “पादा रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः ॥ त्रयः पादा यस्यासौ त्रिपात् ॥ “सङ्ख्यासुपूर्वस्य" इत्यकारलोपः समासान्तः॥
स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
श[१]रावत्यां सतां सक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ ९८॥
स इति । उदगिति च ॥ युग्मम् ॥ स्थिरधीः स रामः । रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा । सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् ॥ " लवो लेशे विलासे च छेदने रामनन्दने” इति विश्वः ॥ शरावत्यां पुर्याम् ।। " शरादीनां च" इति शरकुशशब्दयोर्दीर्घः ॥ निवेश्य । सानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान्वर्जयित्वा गृहवर्जम् ॥ द्वितीयायां च" इति णमुल् ॥ अयं क्वचिदपरीप्सायामपीष्यते । “अनुदात्तं पदमेकवर्जम्" इत्येकाचः शेषतया व्याख्यातत्वात् ॥ परीप्सा त्वरा । अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥
जगृहुरिति ॥ चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिवृष्टां तस्य रामस्य पदवीं मार्गं जगृहुः । तेऽप्यनुजग्मुरित्यर्थः ।।
उपस्थितविमानेन तेन भक्तानुकम्पिना।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥३०॥
उपस्थितेति ॥ उपस्थितं प्राप्तं विमानं यस्य तेन । भक्ताननुकम्पत इति भक्तानुकम्पिना । तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी
चक्रे ॥ “निःश्रेणिस्त्वधिरोहणी" इत्यमरः।।