पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३२६ )
रघुवंशे

  यद्गोप्रतरकल्पोऽभूत्संम[१]र्दस्तत्र मज्जताम् ।
  अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ १०१ ॥

 यदिति ॥ यद्यस्मात्तत्र सरय्वां मज्जतां संमर्दः । गोप्रतरो गोप्रतरणम् । तत्कल्पोऽभूत् । अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ॥

  स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
  त्रिदशीभूतपौरा[२]णां स्वर्गान्तरमकल्पयत् ॥ १०२ ॥

 स इति॥ विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूता देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ॥

  निर्वर्त्यैवं द[३]शमुखशिरश्छेदकार्यं सुराणां
   विष्वक्सेनः स्वतनुमविशत्स[४]र्वलोकप्रतिष्ठाम् ।
  लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
   कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ १०३॥

 निर्वर्त्येति ॥ विष्वक्सेनो विष्णुरेवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य । लङ्कानाथं विभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव । दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा । सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ।


षोडशः सर्गः ।


   वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः ।
   तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥

  अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
  चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥

 अथेति ॥अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः । पुरः पूर्वं ज


  1. विमर्दः.
  2. पौरार्थम्.
  3. दशमुखभयच्छेदकार्यम्; दशमुखभयोच्छेदि कार्यम्.
  4. सप्तलोक.