यस्य तस्य भावस्तत्ता तया। गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः ॥ तदुक्तम्-“जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते” इति ॥ तथाहि । सुभ्रातॄणां भावः सौभ्रात्रम् ॥ “हायनान्त-" इत्यादिना युवादित्वादण्प्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥
ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः॥२॥
त इति । सेतुर्जलबन्धः । वार्ता कृषिगोरक्षणादिः ॥ “वार्ता कृष्याद्युदन्तयोः" इति विश्वः॥ गजबन्ध आकरेभ्यो गजग्रहणम् । ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमर्था अपीत्यर्थः। ते कुशादयः । प्रविभज्यन्त इति प्रविभागाः। अन्योन्यदेशप्रविभागानां या सीमा ताम् । वेलां समुद्रा इव । न व्यतीयुर्नातिचक्रमुः ॥ अत्र कामन्दकः-- " कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरधनादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत्" इति ॥
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः॥ ३ ॥
चतुर्भुजेति ॥ चतुर्भुजो विष्णुः । तस्यांशा रामादयः । ते प्रभवाः कारणानि यस्य स तथोक्तः । दानं त्यागो मदश्च ॥ “दानं गजमदे त्यागे” इति विश्वः॥ प्रवृत्तिव्यापारः प्रवाहश्च । दानप्रवृत्तेरनुपारतानां तेषां कुशलवादीनां स वंशः। सामयोनिः सामवेदप्रभवो दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव । अष्टधा भिन्नः सन् । विप्रससार विस्तृतोऽभूत् ॥ सामयोनिरित्यत्र पालकाव्यः-- "सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां परिगृह्याथ सप्त सामान्यगायत । गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः" इति ।
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेशामदृष्टपूर्वां वनितामपश्यत् ॥ ४॥
अथेति ॥ अथ । अर्धं रात्रेरर्धरात्रः ॥ “अर्धं नपुंसकम्" इत्येकदेशसमासः । "अहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः" इति समासान्तोऽच्प्रत्ययः । “रात्राह्नाहाः पुंसि" इति नियमात्पुंस्त्वम् ॥ अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे
प्रबुद्धः । न तु सुप्तः । कुशः प्रवासस्थकलत्रवेशां प्रोषितभर्तृकावेशाम् ।अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम् ॥ सुप्सुपेति समासः॥ वनितामपश्यत् ॥