पुत्रोत्पादनं तु स्वाधीनम् । तस्मादियं भिन्नतयैव स्थापनीया ।
तथा सति न कोऽपि दोषो भवेत् । प्राणरक्षाया
ऋतुकालगमनापेक्षयाऽधिकफलत्वात् । नन्वेतदप्यशक्यम् ।
कामाचोदनयापि वेतिचेत् तर्ह्येकः पुत्रो भवतु । नैकः पुत्रः
पुत्र इतिचेत्तर्हि द्वौ भविष्यतः । पुत्रपुत्रयोर्जातयोरगमनेऽपि
न दोपः । एतावती लौकिक्युपपत्तिः । तथाऽलौकिकी ।
भगवदिच्छयाऽऽकाशवाणीप्रामाण्याच्च यदि मे बहब एव
सुता जायेरन् , तेऽपि बहुकालेनोत्पादनीयाः । कालेऽपि
भगवदिच्छा चेत्तदा पुत्रसंरक्षार्थं मृत्युरेव म्रियेत ।
प्राणिमात्रे शतं मृत्यवस्तत्र तत्र स्थाने निरन्तरमुत्पद्यन्ते ।
अत्रात्र वै मृत्युर्जायत इति श्रुतेः। तत्र तत्रैव प्रतीकारः
कर्तव्यो यत्र यत्रैव मृत्युर्जायते । तत एवैनमवयजत
इति श्रुतेः। तस्माद्य उत्पद्यते स म्रियत एव । अत
इदानीमुत्पन्नो मृत्युः प्रतीकारे कृते म्रियते । अन्यस्यान्य
उपायः कर्त्तव्यः । एको मृत्युरित्यपि पक्षस्तस्मिन्नपि पक्षे
स नियतकालः । स चेदिदानीं निवृत्तः, पुनस्तस्य
कालाभावात्तं प्रति म्रियेतैव । अतः शब्दनित्यत्ववदस्या
मृत्युरेव गच्छेत् । नन्वेकमृत्युपक्षे मृत्योर्मरणं न श्रूयते ।
लोकाल्लोकादेव मृत्युमवयजते नैनं लोके लोके मृत्युर्विन्दतीति
श्रुतेः । तत्राह ।। मृत्युर्वा न म्रियेतचेदिति । तदा नियतत्वात्
पुत्रान् समर्पयिष्ये । कंसो मृत्युरित्यपव्याख्यानम् ।
अत्रात्र वै मृत्युजोयत इति श्रुतिविरोधात् । मृत्योरधिकरणमेव
सः । लक्षणया तत्परः शब्द इतिचेद् मृत्युत्वादेव
अमरणे सिद्धे व्यर्थोऽनुवादः प्रसज्ज्येत । अस्तु वा तथा ।
सोऽप्याकाशवाणीप्रामाण्यान मरिष्यत्येव । तथापि दास्यामीति
सम्बन्धः ।। ४९ ॥
ननु कथमेवमयुक्तं कर्तुं शक्यते ? तत्राह-