दिभ्यो विशिष्टानस्मान् किमित्युत्पादितवान् । अतो बुद्धिमता
मृत्युरपोह्यः स्वस्य परस्य वा । ननु कृत एवैकवारमुद्यम इति
चेत्तत्राह ॥ यावद्बुद्धिबलोदयमिति ॥ बुद्धेर्बलस्य च
यावदभ्युदय उत्तरोद्गतिः, न तु समता ह्वासो वा । तावद्विवेकवता
यत्रः कर्त्तव्यः । बुद्ध्या क्रियया वा । ननु यथा पूर्वमुद्यमो
विफलो जातः, एवमग्रेऽपि चेद्भविष्यति तदा किमुद्यमेनेतिचेत्तत्राह ॥
यद्यसौ मृत्युर्न निवर्तेत तदा उपेक्षालक्षणोऽपराधो
देहाभिमानिनो नास्ति । देहाभिमानी कालादिदण्डमर्हति ।अतो
नापराधः कर्त्तव्यः ॥ ४८॥
शास्त्रं च यच्छक्नुयात्तत् कुर्यादिति, फलं तु दैवाधीनम् । अतोऽयमुपायः कर्त्तव्य इति निर्धारः । तमुपायमाह-
प्रत्यर्प्य मृत्यवे पुत्रान् मोचये कृपणामिमाम् ॥
सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥४९॥
प्रत्यर्प्येति ॥ मृत्युरयं कंसे निविष्टः प्रतीयते । तस्य हि
सर्वे भक्ष्याः। अप्रतीकार्यश्च स तु पुत्रान् कदाचिद्भक्षयिष्यत्येव।
स चेदिदानं मह्यं दास्यत्येतां तदा पुत्रानपि स एव दत्तवान् ।
अतो दत्तस्य प्रतिदाने न कोऽपि दोषः । तथा करणे विशेषमाह
मोचये कृपणामिमामिति ॥ इयमिदानीं मोचिता स्यात् ।
अधिकोऽस्मिन् पक्षे लाभः । अरक्षायां तु नाऽपि पुत्रा, नापीयम् ।
नन्वेतदप्यनुचितम् । इयमेका, पुत्राश्च बहवः । ते च बालकाः
स्वस्यान्तरङ्गाः । दोषाधिक्यं च । अर्पणं च न सम्भवति । इदानीं
पुत्राणामभावाद्विद्यमानाविद्यमानयोः सिद्धवत्कारेण विषयविभागोऽप्यसङ्गतः ।
अतो धर्महानिप्रसङ्गाल्लोकापकीर्तेश्च नायमुपाय इति चेत् , तत्राह ॥
सुता मे यदि जायेरनिति ॥ तेषां नरकत्राणाभावान्न पुत्रत्वम् ।
प्रसवाज्जायन्त इति सुतत्वमस्त्येव ।