साधनानुष्ठानम् । तत उद्योगः कथनं चेति ।
अलौकिकस्फुरणात्तस्याङ्गीकारः । तेनायमुपाय आपाततः
सफलः । पूर्वोपायवैयर्थ्यमनुवदति ॥ निर्बन्धं तस्येति ॥
तस्य कंसस्य वधरूपं तं निर्बन्धम् अवश्यक्रियासाधकयत्नं
तच्चेष्टया ज्ञात्वा, अतः परं कि कर्त्तव्यमिति विचिन्त्य इदमग्रे
वक्ष्यमाणभन्वपद्यतेति सम्बन्धः । विरोधस्त्वनेनाशक्यो
दृष्टप्रकारेणालौकिकप्रकारेण च । अन्ये तूपाया निवर्तिताः ।
अतः परं द्वयमवशिष्यते, इयं वा देयाऽस्याः पुत्रा वा ।
एतस्या दाने एतां मारयिष्यत्येव ।
मत्सम्बन्धिपुत्राणामाकाशवाण्यामश्रुतत्वात् । देवद्वाराऽपि
तथात्वशङ्कया मारणमावश्यकम् । इदानी स्वतो मारयति ।
पश्चान्मारणे तु ममापि दोषः स्यादिति । पुत्रदानं चायुक्तम् ।
यतः स पुत्रो भगवद्रूपो भविष्यतीत्यानकदुन्दुभिपदेन ज्ञापितम् ।
तस्य जन्मन्यानका दुन्दुभयश्च नेदुरिति । तत्र भगवदुत्पत्तिरावश्यकी ।
साऽपि न भार्यान्तरे । आकाशवाणीप्रामाण्यात् । एवं सङ्कटे
पतिते आनकदुन्दुभिः स्वस्मिन् भगवदुत्पत्तिं निश्चित्यास्यामेवत्यपि
पुत्रदानमेव कर्त्तव्यत्वेन ज्ञातवान् । तदपि न सर्वथा ।
भगवद्वैमुख्यप्रसङ्गे सति भगवदवतार एव न स्यादिति । तदाह ॥
प्राप्तं कालं प्रतिव्योढुमिति ॥ इदानीं मृत्युः प्राप्तस्तस्याः, स
दुरीकर्तव्यः । अयुक्तमप्युक्त्वेति, इदं पुत्रदानलक्षणं तत्र
तस्मिन् समयेऽन्वपद्यत अकस्माद् हृदये समागतमित्यर्थः ॥४७॥
ननु प्रक्षालनाद्धि पङ्कस्येत्यादिन्यायेनेदानीमेव कथं न तूष्णीं भावस्तवाह-
मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम् ।।
यद्यसो न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८॥
मृत्युर्बुद्धिमताऽपोह्य इति ॥ अन्यथा भगवान् पश्वा-