पृष्ठम्:श्रीसुबोधिनी.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


दीना भयविह्वला चातुर्यानभिज्ञा च । पुत्रिकोपमा प्रतिमोपमा। तस्मादेषैव परं नेया, न तु मारणमुचितमित्याह ।। हन्तुं नार्हसीति ॥ कल्याणी विवाहालङ्कारयुक्ताम् ।। इमामिति प्रदर्शनेन दयामुत्पादयति । त्वं च, दीनवत्सलः । अनाविष्टस्वरूपस्य तथात्वात् । स हि तमनाविष्टमेव मन्यते ॥ ४५ ॥

 एवं शास्त्रार्थनिरूपणेन दयाभयादिजननेऽपि न मारणान्निवृत्त इत्याह-


श्रीशुक उवाच ॥


 एवं स सामभिर्भेदैर्वोद्ध्यमानोऽपि दारुणः ॥
 न न्यवर्तत कौरव्य पुरुषादाननुव्रतः॥ ४६॥


 एवमिति ॥ भेदा आत्मानात्मविवेकपरमार्थलौकिकभयरूपाः । साम ज्ञानम् । साम्यं दया च । एवमनेकप्रकारेणापि बोद्ध्यमानो दारुणो दैत्यात्मा न न्यवर्त्तत । तस्माद्वधान्निवृत्तो न जातः । तत्र हेतुः, पुरुषादान् राक्षसान् अनुव्रतोऽनुसृत:। पुरुषादाननुमारणलक्षणं व्रतं यस्येति वा । आविष्टो हि तथैव॥४६॥

 एवं पूर्वप्रयासे उपदेशात्मके विफले जाते पुनर्भगवदिच्छया प्रकारान्तरेण समाधानार्थं यत्नं कृतवानित्याह--


 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।।
 प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ॥ ४७ ॥

 

 निर्बन्धमित्यष्टभिः ।। अयं लौकिको नालौकिकेन परमाऽर्थेन निवर्तते । अतोऽस्य लौकिक्येव युक्तिः कर्त्तव्या ॥ तस्माद् युक्तः स्फूर्तिः प्रथममुच्यते । सा च पुत्रदानात्मिका । तस्याश्चायुक्तत्वमाशङ्क्य युक्त्या युक्तत्वसमर्थनम् । ततः स्फुरितस्योपायस्यानुवादः सोपपत्तिकः । तस्यैव प्रतिकूलतर्कपराहत्या समर्थनम् । अशक्तावदृष्टशरणागतिः । तस्याप्युपायस्य ग्रहणार्थं 4