औदकेषु उदकयुक्तेषु पार्थिवेषु काचादर्शादिषु वा
समीरवेगावाञ्चल्यमालिन्यादयः । तैरनुगतं सूर्यादिज्योतिर्विभाव्यते ।
प्रतिबिम्बितस्यैव सूर्यादेस्तत्सम्बन्धो, नाकाशादिस्थितस्य । अद
इति सम्बन्धाभावायाकाशादिस्थितः प्रदर्शितः । एवमेव स्वमोहेन
रचितेषु सम्यक्तयाऽभिमतेषु देहेन्द्रियादिष्वसौ जीवः पुमान्
भगवानेव रागेणानुगतः, तेन सहैकत्वं प्राप्तः प्रतिबिम्बन्यायेन
प्रविष्टो विशेषेण मुह्यति ।। तस्माद् देहसम्बन्धो भ्रमादिति, न
तदशादात्मनोऽपकारः कर्त्तव्यः ॥४३॥
एवं तत्वं निरूप्य देहरागान्नात्मनोऽपकारः कर्त्तव्य इति यदुक्तं तल्लोकेऽपि तुल्यमिति वदन् मारणे भेदात्मकं भयं प्रदर्शयति--
तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः॥
आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥४४॥
तस्मादिति ।। यस्मादेहो नात्मा। तस्माद्देहार्थं कस्यचिदपि
द्रोह नाचरेत् ॥ यतः स तथाविधः । यादृशो हन्यते तादृशः।
अनेन स्वसाम्येन दया निरूपिता । यथा स्वरक्षा विचार्यते
तथा पररक्षापि विचारणीयेत्युपदेशफलम् । अविचारे बाधकमाह ॥
आत्मनः क्षेममन्विच्छन्निति ॥ यदि विचारयति तदात्मनोऽपि क्षेमो
भवति । सोऽपि विचारयतीति । यदि न विचारयति तदा
द्रोग्धुर्घातकस्य परतो मार्यान्मत्त एव तव भयं भविष्यतीत्यर्थः ॥४४॥
लौकिकव्यवहारेणापि मारणं नोचितमित्याह-
एषा तवानुजा बाला कृपणा पुत्रिकोपमा ॥
हन्तुं नाहसि कल्याणीमिमां त्वं दीनवत्सलः॥४५॥
एषा तवानुजेति ।। लोके कनिष्ठभागिनी स्नेहपात्रं भवति ।
तत्रापि बाला । अष्टवार्षिकी । लालनयोग्या। तत्रापीदानी