पृष्ठम्:श्रीसुबोधिनी.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 किञ्च, देहस्योत्पत्तिमरणे, न त्वात्मनः । आत्मा तु तदऽध्यासाज्जायते म्रियते वा, तदाह-


 यतो यतो धावति दैवनोदितं
 मनो विकारात्मकमाप पञ्चसु॥
 गुणेषु मायारचितेषु देह्यसौ
 प्रपद्यमानः सह तेन जायते ॥४२॥


 यतो यत इति ॥ अस्मिन सिद्धान्ते मन एव देहग्रहणपरित्यागयोर्हेतुः । तच्च मनोविकारात्मकम् । नानाविकाराः सङ्कल्पविकल्पात्मका आत्मा यस्य । तस्य प्रेरकं कालकर्मभगवदिच्छानामन्यतरद्दैवशब्दवाच्यम् । तेन दैवेन प्रेरितं मनो मायारचितेषु विषयेषु मोहेनोत्तमत्वं पापितेषु मध्ये यस्माद्यस्मायं यमर्थ विहाय यत्र यत्र लग्नं भवति तत्र तत्रैवाऽसौ देही तदेव प्रपद्यमानोऽहमिति मन्यमानः, तेन सह जायते । न तु स्वतः। मनश्च यदा यद्भावयिष्यति तादृशो देहो भविष्यति, यच्च त्यक्ष्यति तद्गमिष्यति । विषयास्तु समा एव । एवमपि सति यमेवार्थं मन उत्कृष्टत्वेन मन्यते तदस्मादुत्कृष्टमेव भवतीति नोत्कृष्टदेहरक्षाअर्थमियं मारणीयेत्यर्थः । ४२॥

 एवं मनोऽनुसरणेन देहानुसरणमपि मोहादेव । प्रतिबिम्बन्यायेन, न त्वात्मनस्तथात्वमस्तीत्याह--


 ज्योतिर्यथैवैदकपार्थिवेष्वदः
 समीरवेगानुगतं विभाव्यते ॥
 एवं स्वमायारचितेष्वसौ पुमान् ॥
 गुणेषु रागानुगतो विमुह्यति ॥४३॥


 ज्योतिरिति ॥ औदकपार्थिवेषु उदकयुक्तेषु पार्थिवेषु शरावादिषु तथोदकस्थानीयमन्तःकरणं, पार्थिवस्थानीयो देहः ।