गतयः । तदाह ।। कर्मगतिं गत इति ॥ कर्मगतिं देवतिर्यगादिदेहम् ॥ ४०॥
नन्वधिकप्रयासाभावेऽपि दृष्टान्तानुरोधेनाल्पः प्रयासो भविष्यति । सोऽपि शीघ्रं मा भवत्विति मारणमितिचेत्, तत्राह-
स्वप्ने यथा पश्यति देहमीदृशं
मनोरथेनाभिनिविष्टचेतनः ॥
दृष्टश्रुताभ्यां मनसानुचिन्तयन्
प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
स्वप्ने यथेति ॥ न हि स्वप्ने देहग्रहणे परित्यागे
वाऽणुमात्रमपि प्रयास उपलभ्यते । वैलक्षण्यमपि कदाचिदेव
प्रतीयते, न सर्वदेत्याह ॥ ईदृशामिति ॥ ननु स्वप्नदेहः कर्मसाध्यो
न भवतीति न प्रयास इतिचेत्तत्राह ॥ मनोरथेनाभिनिविष्टचेतन
इति ॥ मनोरथेन तत्तद्वस्तुभावनया मनोगत्या कर्मणा तादृशे देहे
तदुपभोग्ये विषये वा अभिनिविष्टा चेतना बुद्धिर्यस्य । मनोरथेनापि
स्वप्ने दृश्यते । ज्ञानकर्मणी च सम्भवतः । यथा लोकाऽन्तरगतौ।
तं विद्याकर्मणी समारभेते पूर्वप्रज्ञा चेति । ततः
स्वप्नदेहलोकान्तरदेहयोस्तुल्यत्वान्न ग्रहणपरित्यागयोः प्रयासः।
नच वक्तव्यं मनोरथस्य तत्र कारणता नास्तीति । यतो
दृष्टश्रुताभ्यां प्रत्यक्षशास्त्राभ्यां प्रमाणाभ्यां मनसा
राजादिदेहमिन्द्रादिदेहं वाऽनुचिन्तयन् तदेव प्रतिपद्यते ।
स्वप्ने राजाहमस्मीन्द्रोऽहमस्मीति । पूर्वदेहस्य तु स्मरणमपि
नास्ति, कुत्र ग्रहणपरित्यागप्रयाससम्भावना । तदाह ।।
अपगता स्मृतिः पूर्वदेहस्मरणं यस्य । तत् पूर्वानुभूतमेव
किमप्यनिर्वचनीयं स्वाप्निकस्य मायिकत्वात् । तदुदितः स
हि यो यदनन्तर इति न्यायेन स्वप्नौ मनोरथहेतुक इति ॥ ४१ ॥