बहिः कृत्वा तेषामन्तर्मृत्युं पातितवान् । अशनाया मृत्युरेवेति
श्रुतेः । अशनायारूपो मृत्युर्देहेन सहैव जायते । तस्मात्
प्रत्यहमनुभूयमानो मृत्युर्नित्य इति । अद्य वा, अब्दशतान्ते वा
प्राणिनां मृत्युः सिद्ध एव । वीरेति सम्बोधनम् , एवं कथनेऽपि
भयाभावाय । अब्दशतान्ते मृत्युः सर्वधामभिमत इति तदैव वा
आकाशवाणी सत्या भविष्यतीति नमारणमुचितमितिभावः।।३८।।
नच देहत्यागे क्लेशो भविष्यतीति क्लेशनिवृत्त्यर्थमौषधपानवदस्या मारणमुचितमित्याह-
देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः॥
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥
देह इति ।। देहे पञ्चत्वमापन्ने पञ्चमहाभूतेष्वंशतो लीने
सति अयं देहाभिमानी जीवो देहान्तरं नवीनं कल्याणतरं प्राप्य
प्राक्तनं मलप्रायं वपुस्त्यजते । ग्रहणे त्यागे वा नास्य प्रयासोऽस्ति ।
यतः कर्मानुगः । कर्मणैव तथोपस्थाप्यते । नाप्यस्य
प्रयत्नापेक्षा । यतोऽवशः ॥ अनुप्राप्येति कालविलम्बो निराकृतः ।
अतः प्रयासाभावादौषधवदप्यस्या मारणमयुक्तम् ॥३९॥
किञ्च देहान्तरप्राप्तौ विलम्बो भविष्यतीत्यपि न शङ्कनीयमित्याह -
ब्रजस्तिष्ठन् पदैकेन यथैवैकेन गच्छति ॥
यथा तृणजलौकैवं देही कर्मगतिं गतः ॥ ४०॥
व्रजन्निति ॥ यथा गच्छन् पुरुष एकेन पदा तिष्ठन्नेकेन
गच्छति प्रथमतः स्थितिः पश्चाद्गतिस्तथा प्रथमतो देहान्तरग्रहणं
पश्चादस्य परित्यागः। गमने देशभेदस्य दुर्ज्ञेयत्वाद् दृष्टान्तान्तरमाह ॥
यथा तृणजलौकेति ॥ तृणान्तरे स्थित्वा पूर्वतृणं त्यजतीति प्रत्यक्षसिद्धम् ।
यथाऽत्र बुद्धिप्रयत्नौ तथा देहान्तरे कर्म-