पृष्ठम्:श्रीसुबोधिनी.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
जन्मप्रकरणम्अध्यायः


विगर्हितमनुचितमित्याह ॥ शूरैर्जरासन्धादिभिः श्लाघनीया गुणा यस्य । शूरा हि युद्धमभिमन्यन्ते,कातरा एव मृत्युं विचारयन्ति । अतोऽस्याः पुत्रो मारयिष्यतीति श्रवणाच्छूराणाम् उत्साह एंव युक्तः । न तु स्वशौर्यनाशकं तन्मारणमुचितम् । द्वौ सम्मताविह मृत्यू दुरापाविति वाक्यात् । भवांश्च क्षत्रियधर्मे निष्णात इति सर्वैः श्लाध्यते । किञ्च, भोज यशस्करो भवान् । भोजवंशे नैतादृशः शूर इति । अतः स्वकर्मकीर्तिजनकत्वादाकाशवाणीवाक्यश्रवणेन वधो नोचितः । किश्च एतादृशयशोधर्मयुक्तो दयापात्रं भागिनीं कथं हन्याद्, यदर्थं लोकाः स्वयं म्रियन्ते । किञ्च, स्त्रीवधोऽनुचितः शूराणाम् । भगिन्यपि कदाचित् क्षत्रियवंशोद्भवत्वाच्छौर्यमवलम्बते । तादृश्यपीयं न भवति । सा तु पुप्रकृतिका भवति, इयं तु स्त्र्येवेति न पुनरुक्तिः। किञ्च वधे कर्तव्येऽपि कालान्तरे कर्त्तव्यं, न तु विवाहोत्सवे । लौकिका राजानो मारणीयं विषादिनापि मारयन्ति । तस्माच्छौर्यादिधर्मवतस्ते नेदमुचितम् ॥ ३७ ॥

 किञ्च, यदियं हन्यते तन्मृत्युप्रतीकारार्थं, न तु वैरभावेन। न च मृत्युरस्यां हतायां प्रतिकृतो भवति । सहजत्वादित्याह--


 मृत्युर्जन्मवतां वीर देहेन सह जायते ॥
 अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥३८॥


 मृत्युरिति ॥ नापि विलम्बार्थम् । वाणीवचनादेव । नेयं हन्ति नापि हनिष्यति । अस्या अष्टमो गर्भः शीघ्रमेव हनिष्यतीति वाक्यमस्ति । अथ कदाचिद्धनिष्यतीति शङ्का । तन्नित्यमृत्योरनेनान्येन वा हननं सिद्धमिति नाऽयं प्रतीकारः । तदाह ।। जन्मवतामुत्पन्नानां मृत्युर्देहेन सह जायते । मृत्युनैवेदमावृतमासीदित्युपाख्याने, भगवान् मृत्योः सकाशात् प्राणिनो