पृष्ठम्:श्रीसुबोधिनी.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


दुन्दुभयश्च नेदुः । अतो महाभाग्यवान् ।आकाशवाणी च श्रुत्वा इयं न मरिष्यतीति निश्चित्य कथञ्चित् प्रतीकारः कर्तव्य इति युद्धादिकमकृत्वा कंसं परितः सान्त्वयन् , तिष्ठ तिष्ठ मदिज्ञापनां शृण्विति वदन्नाकाशवाण्याः समाधानार्थं वक्ष्यमाणमुवाच॥३६॥

 आकाशवाण्युक्तं न मिथ्या । अयं च प्रतिकारार्थं यतते । तत्र क्रियया प्रतीकारो न भवति, ज्ञानेनैव प्रतीकारो भवतीति नवभिः प्राणश्लोकैस्तस्य सर्वतत्त्वमुपदिशति--


वसुदेव उवाच ॥



 श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः॥
 स कथं भगिनीं हन्यात् स्त्रियमुद्धाहपर्वणि ॥३७॥


 श्लाघनीयेति ॥ यद्ययं मृत्यौ निरभिमानस्तिष्ठेद् अक्लिष्टकर्मा भगवान् तं न हन्यात् । अत इदम् उपदिश्यमानं देवगुह्यत्वात् प्रतिबन्धकत्वेन फलितम् । वसुदेवोऽपि भगवता प्रेरित इत्यनधिकारिणमनवसरे बोधयति । आकाशवाणीमामाण्येन हि स मारयितुमुद्यतः । सा चेन्मारिता स्याद् आकाशवाणी अप्रमाणैव स्यादतोऽन्य एवोपायश्चिन्तनीयस्तेनापि । अतोऽनवसरेऽपि दयया तद्धितमेवोक्तवान्नवधा । एतदकर्त्तव्यम् । महतो निन्दितकरणमनुचितम् । नायं च प्रतीकारः। नाऽपि प्रतीकारः कर्तव्यः। पूर्वदेहस्य मलत्वात्। नापि देहान्तरं दुर्लभम्। नापि पूर्वदेहस्य त्यागे कश्चन प्रयासः। नापि वस्तुतो देहाध्यासव्यतिरेकेण देहिनः स्वतो जन्माऽस्ति । देहाध्यासश्चाज्ञानादिति ज्ञानेन निवर्तते । किञ्च, यावदन्यस्मै न द्रुह्यति तावन्न तस्य भयं भवति । द्रोहे मया वा मनिष्ठेन वा भगवता तव हननं निश्चितम् । आकाशवाण्या मिथ्यात्वात् । लोकस्वभावविरुद्धश्चायमिति । तत्राद्यमन्त्यौ च लौकिको, मध्ये षट्पापारमार्थिकाः । तत्र प्रथम तव