पृष्ठम्:श्रीसुबोधिनी.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
जन्मप्रकरणम् । १। अध्यायः । १ ।


खलः प्रकृत्या भगिनीं हन्तुं खड्गपाणिर्भूत्वा कचे केशपाशे तामग्रहीत् । ननु महत् पापं कथं करिष्यतीत्याशङ्क्याह । पाप इति ॥ निरन्तरपापकरणेन स पापात्मैव जातः । तस्मात्तस्य शास्त्रं न बाधकम् । खलत्वाल्लोकोऽपि न बाधकः । वंशजा अपि न तस्य बाधका जाता इत्याह ॥ भोजानां कुलपांसन इति । भोजवंशोद्भवा ये तेषां कुले पांसनो मलरूपः, कलङ्करूप इति यावत् ॥ कलङ्कजननं तस्य स्वरूपम् । अत: कुले विचारेणापि न निवर्तत इति भावः । कचेषु किञ्चित् कर्त्तव्यं नास्तीति सप्तमी । स तु भगिनीमेव हन्तुं कालेन समारब्धः । आरब्धवान् वा । अपलायनार्थं तस्या ग्रहणम् ॥ ३५ ॥

 वसुदेवस्तु शूरोऽसहायः कंसबलं च जानातीति, स्वतो दोषस्तस्य च न भवतीति निश्चित्य सान्त्वनार्थं प्रवृत्त इत्याह-


 तं जगुप्सितकर्माणं नृशंसं निरपत्रपम् ॥
 वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥३६॥


तमिति ॥ नायं स्त्रीलोभेन तथा करोति । किन्तु अनुचितमिति दयाविष्टस्तं परिसान्त्वयन् उवाचेति सम्बन्धः । लोकलज्जया स्वयमेव न करिष्यतीति ज्ञात्वा कथं न तूष्णी स्थितस्तत्राह ॥ जुगुप्सितमेव सर्वदा करोतीति तथा । स्वस्य दयया त्यक्ष्यतीत्यपि न । यतो नृशंसः क्रूरात्मा । दैत्येष्वपि हीनत्वादपत्रपामपि न । यतो निर्गता अपत्रपा यस्य । लज्जा साऽपत्रपान्यतः॥वसुदेव इति ॥ उपेक्षायामयुक्तः। सर्वप्रकारेण मोचयितुं शक्तः । किञ्च, महाभागः ॥ तस्य जन्मन्यानका



कचेषु किञ्चिदित्यादि। ग्रहण क्रियाकर्मत्वेऽपि कचानां कर्तुर्ग्रहणक्रिययेप्सिततमत्वाभावात्तथात्वज्ञापनाय सप्तम्युक्ता, न द्वितीयेत्यर्थः॥