पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ॥
अस्यास्त्वामष्टमो गर्भो हन्ता यां नयसेवुध ॥३४॥
पथीति ॥ शोभातिशयो मध्ये मार्गे प्रादुर्भूत इति पथ्येव
उक्तवती । न तु गृहे, नापि गमनानन्तरम् । अनेनाधिभौतिकः
कालोऽस्मिन् मार्गे प्रतिबाधकः । स प्रतिविधेय इति ज्ञापितम् ।
सर्वप्रकारेण प्रग्रहिणम् आभाष्य, रे रे कंसेति सावधानपर्यन्तमुक्त्वा ।
अशरीरा वागाकाशवाणी शरीरात् ताल्वोष्ठपुटाघातेन न निर्गता ।
तस्या वाक्यमाह ॥ अस्या इति ॥ अष्टमो गर्भ इति संख्या निःसन्दिग्धा ।
कन्या पुत्रो वेति न विशेष उक्तः। मध्ये भगवता तथा प्रेरिता ।
स बालक एव त्वां हन्ता हनिष्यति ॥ दासीषु प्रक्षिकासु वेति
सन्देहव्युदासायाह ।। यां नयस इति ॥ न चेयं मम भगिनी न
तथा कर्तुं दास्यतीति वक्तव्यम्। यतस्त्वमबुधः । कस्याऽपि तत्वं
न जानासीत्यर्थः । हे अबुधेति सम्बोधनं वक्तुर्हितत्वज्ञापनाय ॥ ३४ ॥ रापातामा
ततो यज्जातं तदाह-
इत्युक्तः सखलः पापो भोजानां कुलपांसनः ॥
भगिनीं हन्तुमारब्धः खङ्गपाणिः कचेऽग्रहीत् ॥३५॥
इत्युक्त इति । आकाशवाण्यास्त्वभिप्रायः । सा स्वगृहे
एव स्थापनीया । अन्यदा वा किञ्चित् कर्त्तव्यमिति । कंसस्तु
इत्युक्त एव सखलः कालनेमिसहितः स प्रसिद्धो दिग्विजयी
अनेनाधिभौतिकः काल इति ॥ भगवत्प्रादुर्भावहेतुर्भक्तिमार्गोऽयं
विवाहश्चेत्युभयोः साम्यादेतत्सम्बन्धिमार्गे कालकृतप्रतिवन्धकथनेन
भक्तिमार्गेऽपि तथात्वं ज्ञाप्यत इत्याशयेनेदमुक्तम् । एवं सत्यस्मिन्
मार्गे भगवत्प्रापकमार्ग इत्यर्थो ज्ञेयः ॥