पारिबर्हं प्रयच्छन्ति वधूवरयोः सन्तोषार्थम् । तत्र पदातीनां स्थाने कन्याप्रीत्यर्थं दास्यो दत्ताः । हेम्नो माला येषां गजानामश्वानां पञ्चदशसहस्राणि ॥ त्रिषट्शतमष्टादशशतम् ॥ ३१॥
दासीनां सुकुमारीणां द्वे शते समलङ्कृते ॥"
दुहित्रे देवकः प्रादाद् यानैर्दुहितृवत्सलः ॥ ३२ ॥
दासीनां सखित्वज्ञापनाय सुकुमारत्वमलङ्करणं चोक्तम् ।
दास्यः कन्यायै केवलं दत्ताः, न तद्भत्रै । अतो न यथेष्टं तेन
विनियोगः कर्तुं शक्यः । ननु देवक्या एव विवाहे कथमेतावद्
दत्तवानित्याशङ्क्याह ॥ देवक इति ॥ अत्यन्तमयं देवो,
भगवानत्रावतरिष्यतीति ज्ञानयुक्तः । ता अपि दास्यो यानैर्दोलाभिः
सहिताः । तासां तथा करणे हेतुः ॥ दुहितवत्सल इति ॥
स हि दुहितृषु वात्सल्ययुक्तः। तासामपि कन्यात्वाद्देवकीवाक्याद्वा
तथाकृतवानित्यर्थः ।। ३२ ॥
सम्माननामाह-
शङ्खतूर्यमृदङ्गानि नेदुर्दुन्दुभयः समम् ॥
प्रयाणप्रक्रमे तावद्वरवध्वोः सुमङ्गलम् ॥ ३३ ॥
शङ्केति ॥ शङ्खो हि मुखवाद्यम् । तूरी हस्तवाद्यम् ।
मृदङ्गानि च । दुन्दुभयो दण्डवाद्यम् । सममेकदा । नैमित्तिकं
तदित्याह ।। प्रयाणप्रक्रम इति ॥ वरध्वोः सुमङ्गलं यथा भवति तथा
नेदुः । अनेन शकुनमप्युक्तम् । पर्यवसानस्योत्तमत्वात् ॥ ३३ ॥
कालो ह्यत्र प्रतिबन्धको जात इति वक्तुं तस्याधिभौतिकः कालनेमिः कंसे निविष्टः शेत इति तत्प्रादुर्भावार्थ तदनुगुणदेवतायास्तदुत्कर्षमसहमानाया अकस्माद् वाक्यं जातमित्याह-