पृष्ठम्:श्रीसुबोधिनी.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


माचकर्षेति ज्ञापनार्थ वा तुशब्दः ॥ कर्हिचित् कस्मिंश्चित्काले, पूर्वोक्ते वा ।। सुमुहूर्तादिकं न भवतीति कर्हिचिदित्युक्तम् । शौरिर्वसुदेवः । शूरस्य पुत्रः । अन्येऽपि वसुदेवाः सन्तीति पितृनाम्ना तन्निवृत्तिः । वसुदेवभ्रातरोऽपि बहव इति, वसुदेवपदम् ॥ कृत उद्वह उद्वाहो येन । देवक्या सूर्यया नवोढया सार्द्धं स्वगृहप्रयाणार्थं श्वशुरदत्तं रथमारुहत् । विवोहात्सवसमयो भर्तृसानिध्यं चोत्तमाऽवस्था स्त्रियाः ॥ देवक्या सूर्ययेति स्वत उत्कर्ष उक्तः । भर्तृप्राधान्यमपि पतिव्रताया उत्कर्षहेतुः ॥२९॥

 यद्यपि देवको ज्येष्ठस्तथापि मर्यादाराज्यंं न भवतीति उग्रसेन एव राजा कंसो वा । मुख्य एव व्यवहारे सम्बन्धहेतुर्लोकप्रसिद्धः । अत उग्रसेनपुत्रोऽपि कंसो देवकपुत्र्या देवक्या भ्रातृकार्य कृतवानित्याह-


 उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ॥
 रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः॥३०॥


 उग्रसेनसुत इति ॥ स्वसुर्भगिन्या देवक्याः संमाननरूपप्रियचिकीर्षया स्वयं हयानां रश्मीन् प्रग्रहान् जगृहे । सूतो जात इत्यर्थः । केवलेन प्रतिष्ठा न भवतीति विशेषणम् ॥ रौक्मैः सुवर्णपरिकरैः, स्थशतैरनेकशतरथैर्वृतो वेष्टितः । अनेन वसुदेव एव मुख्यो राजा कृतः । स्वयमपि दासभावं प्राप्त इति महत संमाननम् । अन्यत उत्कर्ष उक्तः ॥३०॥

 पितृकृतं द्रव्यकृतमुत्कर्षमाह-


 चतुःशतं पारिबर्हं गजानां हेममालिनाम् ॥
 अश्वानामयुतं सार्द्धं रथानां च त्रिषट्शतम् ॥३१॥

 चतुःशतमिति ।। क्षत्रिया हि चतुरङ्गिणीं सेनां विवाहे