जधानी ततः साभूत् सर्वयादवभूभुजाम् ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः॥२८॥
राजधानीति ॥ ततः प्रभृति यावन्तो राजानः
कंसपर्यन्तं स्वबलाज्जाताः । खण्डमण्डलाधिपतयस्तेषां
तत्राऽत्यन्तं सुखानुभवाद् मथुरैव राजधानी अभूत् ।
सर्वे च ते यादवभूभुजश्च ॥ ततः शूरसेनप्रभृति ॥
राजा धीयते प्रीयते यस्यामिति सा राजधानी । निधीयते
पट्टाभिषिक्तः क्रियत इति वा ।। अनेन तत्र राज्यलक्ष्म्या
नित्यं स्थानमित्युक्तम् । तत्र स्थितानामानन्दे हेतु:-
भगवान् यत्र नित्यं संनिहित इति ॥ सर्वतत्त्वेषु यो
विष्टः स भूमावपि सङ्गतः । स नित्यं कचिदेवास्ति तत्स्थानं
मथुरा स्मृता ॥ तत्र स्थित्वा द्वयं चक्रे सर्वेषां सकलं हितम् ।*
सर्वदुःखनिवृत्तिं च तत्र चेद् दुःखसम्भवः ।। प्रतीकाराः सर्व एव
मर्यादामार्गसम्भवाः *। व्यर्था जाताः सर्वथेति ज्ञापनार्थं निरूपितम् ॥
श्रीर्ङ्गादिष्वपि नारायणस्य ब्रह्माडविग्रहस्य सान्निद्यम्।
देशकालादिमध्यस्थः षडङ्गत्वं य आगतः ॥ सोऽन्यत्र सर्वदेशेषु
शालग्रामादिषु स्थितः ॥ २८ ॥
तस्या अवस्थोत्कर्षमाह-
तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोऽद्वहः ॥ ।।
देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९॥
तस्यामिति ॥ तुशब्दो दुःखपर्यवसानेन भगवतत्कृत- सुखव्यावृत्त्यर्थः । सर्वानंशान् सर्वतो भगवान् स्वाऽवतारार्थ-
सर्वानित्याद्याचकर्षेत्यन्तम् । पूर्वसानिध्ये सति भक्तदुःखाभावे
स्वावतारो न सम्भवतीति तदर्थं तत्सान्निध्यं दूरीकृतवान् । अग्ने
व तत्प्रयोजनाभावात् स्वस्मिन्नेव लीनं कृतवानित्यर्थः ।।