शूरसेनात्मकम् । ज्येष्ठस्तु माहिष्मत्यामेव ।। सर्वोत्कर्षे तु यद्
दुःखं तद् दुःखं स्वल्पके स्मृतम् * देशतः कालतश्चैवावस्थातच
स्वतोऽन्यतः ॥ द्रव्यतो मानतश्चेति सप्तैव सुखदाः स्मृताः |
तथाभूताच्छब्दरशात् प्राप्ता दुःखं तदा पतिः ।
प्रतिक्रियां समारेभे नवभिश्च प्रतिक्रिया ॥ तत्र प्रथमं देशस्योत्कर्ष
उच्यते ।
पूर्वं शूरसेनः शत्रुघ्ननिर्मितायां मथुरायां तत्रत्यमानन्दमनुभूय
निवासं कृतवान् । स च यदुपतिः यदूनां प्रभुः । तन्नाम्ना
जातानपि शूरसेनान् विसृज्य मथुरामेवावसन उभयान् देशान्
बुभुजे । अनेन यदूनां मथुरा स्वदेश इत्युक्तम् ॥ २७ ॥
कालभेदेनापि सा महती जातेत्याह-
ननु मातृचरणानां दुःखप्रापणोपायमानं छत्र वाच्यम् । तत्तु
विवाहं कृत्वा गृहगमनसमये तथाऽऽकाशवाण्यभूदित्येतावतैव उक्तं
भवतीति देशकालावस्थादिभिः सर्वोत्कर्षवर्णनं व्यर्थमित्याशङ्ख्य
तत्तात्पर्यमाहुः ॥ सर्वोत्कर्षे वित्यनेन ।। भगवदाविर्भावस्थानमिति ॥
यथा वसुदेवजन्मसमय आनकदुन्दुभयो नेदुरिति सर्वत उत्कर्षों
लोके ज्ञातस्तथा स्त्रिया भर्तृगृह एव पुत्रजन्म भवति । तत्र विवाहो
निमित्तमिति तं कृत्वा तद्गृहगमनसमये मातुः सर्वोत्कर्षे भगवता
सम्पादिते सति यत् दुःखमुपस्थितं तत् स्वल्पके निमित्ते शीघ्रमनायासेन
भगवता निरसितुं योग्ये सति भवतीति भगवन्मार्गे शास्त्रे
निरूपितमित्यत्रापि न काचिञ्चिन्तति ज्ञापनाय तद्वर्णनमित्यर्थः ॥
सुष्टु अल्पकमतिसूक्ष्म दुर्ज्ञेयमिति यावत् । तादृशे निमित्ते सतीत्यर्थः।
भक्तदुःखं विना भगवदाविर्भावो न भवतीति तदर्थं तत्कथनमित्यपि
तात्पर्यं ज्ञेयम् ॥ देशतः कालत इत्यादि ॥ सप्तैव सुखदा
इत्युक्त एकस्य द्वयोर्वापि सुखदत्वं सम्भवतीति नायं नियम
इत्याशङ्क्या निमित्तानां तावद्रूपत्वात्तथेति बोधयितुं तान्येवोक्तानि,
देशत इत्यादिना ॥ अथवा, सार्वविभक्तिकस्तसिलिति केचिदिति
वाक्यादत्र प्रथमातस्तसिलिति ज्ञेयम्॥